पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
सत्कार्यानुमानम् ।


यथा कूर्मः स्वावयवेभ्यः सङ्काचविकामिभ्यो न भिन्नः, एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः । ए- वंञ्चेह तन्तुषु पट इति व्यपदेशा, यथेह वने तिलका इत्युपपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति, ए- कस्यापि नानार्थक्रियादर्शनात्, यथैक एवं वह्निर्दाहकः पाचकः प्रकाशकश्चेति नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः, तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शना- त् । यथा प्रत्येकं विष्टय वर्त्मदर्शनलक्षणामर्थक्रियां कु- र्वन्ति, न तु शिबिकावहनम् , मिलितास्तु शिबिकामु- द्वहन्ति, एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मि-: लिता आविर्भूतपटभावाः प्रावरिष्यन्ति ।।

 स्यादेतत्-अविभावः पटस्य कारण व्यापारात् प्राक् सन् असन् वा ? असंश्चेत् प्राप्तं तर्हसदुत्पादनम् । अथ सन् , कृतं तर्हि कारणव्यापारेण । नहि सति कार्ये कारणव्यापारप्रयोजनं पश्यामः । आविर्भाचे चाविर्भा- वान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविभूतपटभा- वास्तन्तधः क्रियन्त इति रिक्तं वचः ।


 प्रत्ययप्रयोगविरोधं निरस्यति ।एवं चेहति ।


 अर्थक्रियाभदविरोधं दूरीकरोति । एकस्यापति । विष्ट- यो-वेतनं विना कमैकराः । दर्शनलक्षणामिति । वर्त्मनीति शेषः ।

 कणभक्षाक्षचरणावा शङ्केते । स्यादेतदित्यादिनाकारण- व्यापारेषेति । अत्र कारणक्यापारात्प्रागपि कार्यस्याभिव्यक्त्या स्वकार्यजनकत्वापत्तिरिति पूर्वं पक्षमुपसंहरति । तस्मादिति ।

 रिक्तं-बाधितार्थकम् ।

 युक्तिशुन्यमित्यन्ये ।