पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
सत्कार्यानुमानम् ।


तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा, स्व- सत्तासमवायो वा, उभयथाऽपि नोत्पद्यते, अथ च त- दर्थानि कारणानि व्यापार्यन्ते । एवं. सन एव पदादेरा- विर्भावाय कारणापेक्षत्युपपन्नम् । न च पटरूपण कार- णानां सम्बन्धः, तद्रूपस्याक्रियात्वात्, क्रियासम्बन्धि- त्वाञ्च कारकाणाम्, अन्यथा कारकत्वाभावात् ।

 तस्मात् सत् कार्यमिति पुष्कलम् ॥ ९ ॥

णमतसिद्धोत्पत्तिरपि न सम्भवतीत्याह । तस्मादिति। स्वकारणेन समवायः स्वकारणे समवायो वा स्वोत्पत्तिरित्यर्थः । स्वसत्तया सम- वायः स्वस्मिन्सत्तासमवायो वा स्वोत्पत्तिरित्यर्थः । कारण वैयर्य्थे इष्टापर्त्ति निरस्यति । अथ चेति । न चाधक्षणसम्बन्धरूपोत्प- त्तिवच्या, तत्रापि सतीत्यादिविकल्पदोषग्रासत्रासानपायात् । सम्बन्धस्य सन्बन्ध्यधीनत्वेनोक्तव्याघाताञ्च् । तस्मात् तवोत्पत्ता- बिंव ममापि सत एवं पटादेरसदाविर्भावे कारणापेक्षोपपन्नेत्याह । एवं सत इति ।

 “यत्रावयोः समो दोषः परिहारोपि वा समः" इति न्या- येनाह । एवं सत इतीत्यन्ये ।।

 ननु सत आविर्भावलक्षणक्रियाया उत्पादनाय कारणच्या- पाराङ्गीकारे विनिगमनाविरहेणाऽसत्कार्योत्पत्त्यापत्तिरिति चेन्न, कारकाणां मिथो जन्यजनकभावसम्बन्धाभावादित्याह । न चेति ।

 कार्याणां कारणे सर्वदा सम्बन्धस्सत्त्वात्सर्वदा तद्व्यवहारप- त्तिरित्यन्ये । तन्न । तद्रूपस्येत्याद्यग्रन्थविरोधात् ।  तत्र हेतुमाह । तद्रूपस्येति । क्रियानिमित्तं कारकमिति न्यायेन विपक्षे दोषमाह । अन्यथेति । उपसंहरति । तस्मादिति । पुष्कलं-निर्दोषम् ।

 प्रचुरमित्यन्ये ।