पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


"सक्रियम्" परिस्पन्दवत् । यथा हि बुद्ध्यादयः

बुढ्यादावभावादव्याप्तमियत आह । यथा हीति । हि हेतौ ।

 बुद्ध्यादयः परिस्पन्दवतः पुरुषभिन्नत्थे सति संयोगविभागा- श्रयत्वाद्धस्तादिवत्, न च हेत्वसिद्धिः, “सविज्ञानो भवति सवि- ज्ञानमेवान्वाक्रामती"ति श्रुतेर्हेतोः पक्षधर्मत्वावगमात् ।

 परिणामस्य क्रियाजन्यत्वनियपात्तत्रापि क्रियावत्त्वमित्यपरे ।

 वेदान्तिनस्तु-यथाऽसदशक्यक्रियं तथा सदपि, न हि जातु चितिशक्तिरपरिणामिन्यनन्ता क्रियागोचर किं चेदं कुतः इदं मन्त्रौषधमिन्द्रजालमार्येण शिक्षितं, यदिदं जाताविनष्टरूपातिशयम व्यवधानमनतिदूरस्थानं तस्यैव तदवस्थेन्द्रियादेरेव पुंसः कदाचि- त्परोक्षमपरोक्षं चेति । यदि मन्येत नानतिशयमेकातिशयोत्पत्त्या परातिशयनिवृत्याऽत्र व्यवहारभेदोपलब्धेः । तिस्रः खल्विमा भाव- परिणतयः सांख्यानां धर्मलक्षणावस्थाभेदात् तयथा-सुवर्णमेकं धर्मी तस्य परिणामाः स्वस्तिकरुचकादयो धर्मा उपजानापायधर्मणाः, तेषां च लक्षणपरिणामः तथा हि स्वर्णकारोऽयं स्वस्तिकं रुचकं रचयति तदा स्वतिको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुच- कस्त्वनागततालक्षणं हित्वा वर्तमानतां प्रतिपद्यते, तथांऽवस्था परिणामो लक्षणगतः प्रतिक्षणमुत्पत्तिनिरोधधर्माभिनवाभिनवतरा- भिनवतमपुराणपुराणतरपुराणतमत्वादिः, प्रयत्नसंरक्षितस्थापि व- स्त्रादेः प्रान्ते पुराणतमत्वोपलम्भात् । सोऽयं त्रिविधः परिणामातिशय इति । अथायमतिशयस्त्रिविधोऽपि धर्मिणि यदा यदा ततस्तदा स्वस्ति- कादयश्च त्रैकल्पं च नवपुराणत्वादपश्चापर्यायं धर्मिणि एकस्मिन्सुवर्णे उपलभ्येरन् । कदाचित्कत्वे तु कथं नासतामुत्पादः ? तेषां शत्या त्मना सत्त्वाददोष इति चेन्न । शक्त्यतिशयश्च किमेकमेव तत्त्वं नाना वा ? तत्रैकत्वे जन्माजन्मनिवृत्तिरनिवृत्तिः,प्रत्यक्षतापरोक्षतार्थक्रिया- सूपयोगोऽनुपयोगश्चेति कथमेकत्र निष्पययं परस्परपराहतं याज्येत,