लिङ्गम', प्रधानस्य । यथा चैते बुद्ध्यादयः प्रधा-
नस्य लिङ्गम् तथोपरिष्टाद्वक्ष्यति । प्रधानं तु न प्रधानस्य
लिङ्गम् पुरुषस्य लिङ्कम्भवदपीति भावः ।।
"सावयवम्” (अवययावयविप्तंयोगसंयोगि ) अथ वा अवयवनम् अवयवः, अवयवानामवयविनां मिथः संश्लेषो मिश्रणम् संयोग इति यावत् । अप्रसिपूर्विका प्राप्तिः संयोगः । तेन सह वतन इति सावयवम् । तथा हि पृथिव्यादयः परस्परं संयुज्यन्ते, एमन्ये ऽपि, न तु प्रधानस्य बुद्ध्यादिभिः संयोगः, तादात्म्यात् । नापि
यथा स्थौल्यादिना तन्त्वादिभ्यः पटानाम् । कृचिच्चाऽध्यवसायादि-
गुणात्मकत्वरूपेण कारणवैधर्म्येण महदादीनाम्, यथा वा पृथिवीत्व-
सामान्यात्मकत्वरूपेण तन्मात्रबैधर्म्येण पृथिव्यादीनाम् । यथा वा
कर्मात्मकतावैधर्म्येण स्थिरावयवेभ्यश्चलावयविनः । न च पूर्वोक्ता-
भेदानुपपत्तिः । अत्यन्ता भेदे स्वस्याधारवासम्भवेनाभेद समानाधि-
करण भेदस्यैव स्वीकारात् । जातिभेदकोदाहरणमाह । यथेह वन
इति । वनं वृक्षसमुदायः । तथा च वृक्षत्वेनाभेदेऽपि तिलकत्वेन भेद
इत्यर्थः । ननु प्रधानस्य भोग्यत्वेन भोक्तृपुरुषलिङ्कत्वात् लिङ्गत्वं
प्रधानेऽतिप्रसक्तमित्यतो लिङ्गपदं प्रधानलिङ्गपरमित्याह । लिङ्गं
प्रधानस्येति । उपरिष्टादिति । भेदानां परिमाणादित्यादा-
वित्यर्थः ।
लिङ्गं कार्यत्वे सति गमकं, तेन प्रधाने नातिव्याप्तिरित्यन्ये । हेतुमदित्थनेन पौनरुक्त्यमाशङ्क्याह । अवयवनमित्यादि । तथा चावयोऽवपूर्वस्य यु मिश्रणे इत्यस्य रूपमित्यर्थः । संयोगस्य लक्षण- माह । अप्राप्तिपूर्वेति । समवायनिरासायाऽप्राप्तिपूर्वेति । ननु कार्य- कारणयोस्तादात्म्यात्संयोगाभावेऽपि प्रधानस्वरूपगुणानां कार्यका- रणभावाभावात्संयोगसम्भवे सावयवत्वपसङ्ग इत्यत आह । नापी-