पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


स्येति त्रिगुणम् । तदनेन सुखादीनामात्मगुणत्वम् पररा- भिमतमपाकृतम् ।।

 "अविवेकि"' । पधा प्रधानं न स्वतो विथिच्यते, एवम्मइदादयोऽपि न प्रधानाद् विधिच्यन्ते, तदात्मक- त्वात् । अथ वा सम्भूयकारिताऽत्राविधेकिता । न हि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय । तत्र नै कस्मात् यस्य कस्यचित् केन चिसम्भव इति ॥




नामात्मधर्मत्वाङ्गीकारादसम्भवोऽतिव्याप्तिर्वेत्यत आह । तदने- नेति । "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति- रधृतिर्ह्वीर्भीर्धी रियेतत् सर्वे मन एव, “तीरणौ हि तदा भवति हृदयस्य शोकात् कामादिकं मन एवमन्यमानः सन्नुभौ लो- कावनुसञ्चरति ध्यायतीच केलायतीव स यदत्र किञ्चित्पश्यत्य- नन्वागतस्तेन भवती" त्यादिश्रुतिविरोधादिति तात्पर्यार्थः । युक्तिस्तु वक्ष्यते । “अविवेकिविषयः" इति यदेकं पदं तदाऽविवे: किभिज्ञैर्विषयो दृश्यं भोग्यो वेति तदर्थः । तत्र चाविवकिप- देवैयर्थ्याँद्विच्छदमाह । अविवेकीति । अविवेकपदस्य यत्किञ्चित्- परत्वे पौनरुक्त्यं यत्किञ्चिदभिन्नत्वपरत्वे च . पुरुषेष्वतिव्याप्तिः । सकलाभेदपरत्वे चासम्भव इत्यत आह । यथा प्रधानमिति । साधारणाविवेकपदस्य प्रधानाभिन्नत्वपरत्वे लक्षणापत्तेः । तद- भिन्नत्वस्य च सजातीयकारणसाधनानुपयोगात्सङ्घातपरार्थत्वा- दिस्यत्रानुपयोगाच्चाह । अथ वेति ।।

 अचेतनत्वाद्विवेकाभावः सिद्ध इत्यपरितोषात्पक्षान्तरमाह । अध वेत्यन्ये । तत् । तस्मात् ।।

 ननु अन्तःकरणवृत्त्य्याश्रयत्वरूपविषयत्वसाधर्म्यं विज्ञानस्कन्ध- मात्रं तत्त्वमिति वदतां योगाचाराणां मतेऽसम्भवीत्याशङ्क्याह । ये त्विति