पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
गुणत्रयनिरूपणम् ।

मभिसम्बध्यते ।

 ‘अन्योन्याभिभववृत्तयः । एषामन्यतमेनार्थवशा- दुद्भूतेनान्यदभिभूयते । तथा हि सर्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते, एवं रजः सरवतमसी अभिभूय घोराम्, एवं तमः सत्वरजसी अभिभूय मूढामिति ।




खत्वम्, तयोरभिभवत्वं च स्वस्व कार्यानभिमुखत्वे सति तत्कार्यजन- ने तत्सहकारित्वम् । तदेवोपपादयति । तथा हीति । सत्वं कर्त्तृ। नन्वेवं प्रलये सदृशपरिणामो न स्यादित्याशङ्क्य वृतिपदस्य शा- न्तादिपरत्वान्मैवभिन्याह-शान्तामिति । शान्तां सत्त्वस्य मुख्य- परिणामभूताम् , यतः प्रवृत्तिपरिणामाद् बुद्धिमनइन्द्रियाणि स्युः । रजः कर्त्तृ, घोराम् , यत इन्द्रियादिभूतभौतिकान्तानामुत्पत्तिः । मुढाम्, यतः पञ्चतन्मात्राणि पश्चमहाभूतानि । तथा च वक्ष्यति सात्विक एकादशक" इत्यादिना ।

 एतनान्योन्याभिभवत्तय इत्यस्योन्योन्येनाभिभवों यासां तादृश्यो वृत्तयो येषामन्योन्यमभिभूय वृत्तयो येषामिति वा ऽर्थे परस्प- रप्रतिबन्धेन कार्यसामान्यभावप्रतीत्या शान्तामात्मनो वृत्तं लभते इससङ्गतामति परास्तम् । पुरुषार्थप्रयोजकादृष्टप्रयोज्यद्भूतत्वावशि- ष्टस्यैव प्रतिबन्धकत्वांगीकारात् । अत एवान्यतमो गुणः स्वका- र्यार्थमन्यावाश्रित्य सहकारिणौ कृत्वा प्रवर्तत इत्यर्थपरमन्योन्या- श्रयवृत्तय इत्यपि सङ्गच्छत्ते ।।


 ‘रजस्तमश्चाभिभूय सव भवति भारत ।
 रजः सत्वन्तमश्चैव तमः सत्वं रजस्तथेति' ।

भारतवचनं च ।

 नन्वेकरमान्कायाँसम्भवस्तत्र सामान्या हेतुत्वादत आह-अ- न्योन्याश्रयवृत्तय इति । अन्योन्यं परस्परमाश्रित्याधाराधे- यभावं प्राप्य स्वस्यं वृत्तिः परिणामो येषां तेऽन्योन्याश्रयवृत्तय



२८