पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
गुणत्रयनिरूपणम् ।

 ‘अन्योन्यमिथुनवृत्तयः' । अन्योन्यसहचराः, अवि भाभाववृत्तथ इति यावत् । चः समुञ्चये । भवति चान्नागमः---

-

 अन्योन्यामिधुनः सर्वे सर्वे सर्वत्रगामिनः ।
 रजसो मिथुनं मत्त्वं सत्त्वस्य मिथुनं रजः॥
 तमसाश्चपि मिथुने ते सत्त्वरजसी उभे ।
 उभयोः सत्वरजसोर्मिथुनं तम उच्यते ॥
 नैषामादिः सम्प्रयोगो वियोगा वोपलभ्यते ॥
  ( इति देवीभागवतम्-३।८) ॥ १२ ॥





नं चेति । यथा दुग्धपरिणामस्वभावमपि दध्याद्याकारार्थमातं-. चनमपेक्षते तथा प्रलयकालेऽपि गुणान्तरमपेक्ष्यैव स्वस्वरूपेण प रिणमते सृष्टिकाले तु शान्तादिरूपणेत्यर्थः । किञ्च तदुपलक्षित- मित्युक्तं तत्राह-सदृश इति । तथा च सदृशपरिणामवन्तस्ते एव प्रधानमित्यर्थः । अत एव । यत एवान्योन्यं न परिणमन्ते अत एवेत्यर्थः । एवन्तरवान्तरस्याप्युत्पत्ति वारयति । तत्वान्तरस्येति- । अन्यथाऽनवस्थापत्तिरित्यर्थः ।

 नन्वेवमपि विभिन्न कार्यत्रयं प्रतीयतेत्या आई-अन्यान्य- मिथुनवृत्तय इति । तथा च परस्परसहचरत्वान्न कार्यविभि- न्नताप्रतिपत्तिरित्यर्थः ॥

 नन्वेवमपि स्त्री पुरुषवत्सहचरत्वेऽपि विभक्त प्रतीतिः स्यादि- त्यत आह । अविनाभावेति । विभुत्वात्परस्परपरिहारेणाप्रवर्त- माना इत्यर्थः ।। तथा च नीलपीतादिकपालजन्यघटादिवत्तत्तत्का- र्यस्याप्यविभक्तत्वमित्यभिप्रायः । उक्तार्थे संमतिमाह-भवति चेति। मिथुनाः विभुत्वादवियुक्ताः । अत एव सर्वत्र । सवे- कार्येषु । गामिनः । कारणरूपेणानुगताः । तदेवाह-रजस इत्या- दिना । अत एव । नैषामादिः । अत्रत्यनञ्पदं वियोग इत्यत्रा-