पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
गुणत्रयनिरूपणम् ।

 सत्त्वतमसी स्वगमक्रियतया स्चवकार्यप्रवृत्तिं प्रत्यव- सीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्वकार्ये उत्साहं प्रयत्नं कार्येते । तदिदमुक्तम्---* उपष्टम्भकं रजः' इति । कस्मादित्यत उक्तम्-चलम्” इति । तद- नेन रजसः प्रवृत्यर्थत्वं दर्शितम् ॥

 रजस्तु चलतया परितस्त्रौवुण्यं चालयेत् , गुरुणा ऽऽवृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वाचि- देव प्रवर्त्यते इति ततस्ततो व्यवृत्त्या तमो नियमकमु- क्तम्-* "गुरु चरणकमेव तमः" ' इति । एवकारः प्रत्येकं भिन्नक्रमः सम्बध्यते, सत्त्वमेव, रज एव, तम एवेति ॥

 ननु एते परस्परविरोधशीला गुणाः सुन्दोपसुन्दवत् परस्परं ध्वंमन्त इत्येव युक्तम्, प्रागेव त्वेतेषामेकक्रि- याकर्तृता इत्यत आह--" प्रदीपवच्चार्थतो वृत्तिः" इ-


च लघुत्वं कार्योद्गमनहेतुभूतो धर्मः । इष्टम् । सांख्याचार्यैरित्यर्थः । इन्द्रियाणां विषयग्रहणसमर्थयदर्शनाल्लघुत्वं प्रकाशकत्वं चेत्याह । एवं करणानामित्यादि । उपष्टम्भकं संश्लेषजनकम् । प्रेरकत्वे सति सक्रियत्वं रजसो लक्षणम् । गुरु । गुरुत्ववत् । वरणकम् । आवरकम् । तमसैवाङ्गगुरुत्वविषयावाभासप्रतिवन्धयोर्दशनात् गुरुत्वे सति तदिन्द्रिय कार्यप्रतिबन्धकेत्वं तमसो लक्षणम् । ।

 ननु वरणकमेव तम इत्यत्र विशेषणासङ्गतिः, एवकारेण शंखः पाण्डुर एवेत्यादिवत् विशेषणायेगव्यवच्छेदलाभेऽपीतरस्मिन् वर- रणकत्वव्यवच्छेदलाभासम्भवः सत्त्वादिस्यले चैवकाराभावात्तदित- रस्मिल्लघुत्वादिव्यवच्छेदालाभश्चैयाशङ्क्याह-एवकार इति । भि- न्नक्रमं स्वयमेव दर्शयति सत्त्वमेवेतिसन्दोपसुन्दबादति । सुन्दोपसुन्दावसुरविशेषौ परस्परमरणानुकूलसमकालीनन्यापारो- त्पादनेन यथा नष्टौ तद्वदित्यर्थः । इदमुप्लक्षणम् अन्त्योपान्त्यशब्दा-