पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
अविवेकित्वादिसिद्धिः ।


भेदा उन्नीयन्ते । एवं दुःखोपटुम्भकत्वप्रवर्तकत्वैः, एवं मोहगुरुत्वावरणैः-इति सिद्धं त्रैगुण्यमिति ।। १३ ॥

 स्यादेतत्-अनुभूयमानेषु पृथिव्यादिष्वनुभवसिद्धा भवन्त्वविवेकित्वादयः । ये पुनः सत्त्वाद नानुभव- पथमधिरोहन्ति तेषां कुतस्त्यमविवेकित्वं विषत्वमचे- तनत्वं प्रसवधर्मित्वं च ! इत्यत आह-


 अविवेक्यादेः सिद्धिस्त्रै गुण्यात्तद्विपर्ययाभावात् ।
 कारणगुणात्मकत्वात्कार्यस्याव्यक्तमापि सिद्धम् ॥ १४ ॥


 विवेक्यादेः । इति अविवेकित्वमविवेकि-यथा द्व्योकयोर्द्विवचनैकवचने' ( पाणिनिसुत्र, १।४।२२ ) इ त्यत्र द्विवैकत्वयोरिति अन्यथा द्व्येकेष्वति स्यात् । कुतः पुनरविवेकित्वादेः सिद्धिारित्यत आह-त्रैगु- ण्यात्' इति । यद्यत् सुखदुःखमोहात्मकं तत्तदविवे- कित्वादियोगि यथेदमनुभूयमानं व्यक्तम्-इति स्फुट- त्वादन्वयो नोक्तः । व्यतिरेकमाह--तद्विपर्ययाभा-


उक्तन्यायेन निमित्तभेदाभाव मन्यत्रातिदिशति--एवमिति ॥ उ- पसहरति-इति सिद्धमिति ॥ त्रिगुणात्मिक प्रकृतिः सर्वोपा- दानतया सिद्धेत्यर्थः ॥ १३ ॥

 संगतिं सूचयन्नविवेकीत्यादिसाधर्म्यस्य सत्वादावव्याप्तिनिरा- सपरत्वं मूलस्याऽऽह-स्यादेत्तदित्यादिना-तथा चाविवेकित्वा- द्युपपादकनिरूपणेनोपोद्धातसंगतीरिति सूचितमित्यर्थः । आश्रयस्य सत्वादेरग्रेसाधनीयत्वात्पनरुक्त्यमाशंक्त्याविवोकिपदस्य भावप- रत्वमाह-अविवेकित्वमति ॥ तत्रदृष्टांतमाह-यथेति ।। दृष्टांतेभा- वप्रधानत्वाभावेदोषमाह अन्यथेति ॥ प्रकृतनिष्ठबहुत्वसत्वाद्वहुवच-