पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

वात्' इति । अविवेकपादिविपर्यये पुरुषे चैगुण्याभावा- त् । अथ वा व्यक्ताव्यक्ते पक्षीकृत्यान्वयाभावेनावी- त एवहेतुस्त्रैगुण्यादिति वक्तव्यः ।।

 स्यादेतत्-अव्यक्तसिद्धौ सत्यां तस्याविवे कित्वाद- यो धर्माः सिध्यन्ति । अव्यक्तमेव त्वद्यापि न सिध्य- ति, तत्कथमाविवेकित्वादिसिद्धरत आह-"कारणगु- णात्मकत्वात्” इति । अयमभिसन्धिः-कार्यं हि कारण- गुणात्मक दृष्ठम, यथा तन्त्वादिगुणात्मकं पटादि । त- था महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्व- कारणगतसुखदुःखमोहात्मना भवितव्यम् । तथा च


नापात्तिरित्यर्थः । विगतमव्यक्तमविवेकि त्रिगुणत्वात्पृथिव्यादिवदि- त्यत्रेन्द्रियविषयत्वमुपाधिरततोजडमात्रं पक्षीकृत्याह-अथवति ।। पू- र्वस्मिन्नर्थे संभवन्नप्यन्वयः स्फुटत्वादुपेक्षित अस्मिन्नर्थेत्वन्वयासंभव एव । त्रैगुण्यादिति हेतुस्तद्विपर्ययाभावादिति तु व्यतिरेकव्याप्तिप्रद- र्शनपर इत्यभिप्रायः । स च तस्याविवेकित्वादेर्विपर्ययो यत्र स त- द्विपर्ययो, यत्र स तद्विपर्ययस्तत्र त्रैगुण्याभावादियेवं व्याख्येयः ॥ प्रथमानुमाने आश्रयासिद्धिमाशंक्य निरस्यति स्यादेतदित्यादिना ॥ सामान्यरूपेण व्याप्तिमुक्त्वालिङ्गस्य पक्षधर्मतामाह-तथा महदादि- लक्षणेनेति ॥ तथा चायं प्रयोगः-महदादि सुखदुःखमेव- दुव्योपादानकं कार्यत्वे सति तद्विशेषगुणवत्वादिति ।।

 ननु महदाद्यारभ्य पञ्चतन्मात्र मद्यापि न सिद्धम् । तत्पक्षीकृया व्यक्तसाधनं मिश्रणा मज्ञानविजृभितम् । ये पुनः सत्वादयो नानुभव- पथमवरोहंति तेषां कुतस्त्यमविवेकित्वमिति पूर्वोक्तावस्मरणं च ॥ म- हदादीनामद्यापि कार्यवासिद्धया महदादिलक्षणेन कार्येणेतिसिद्ध- वन्निर्देशश्चासङ्गतः ॥ स्वकारणगतसुखदुःखमोहात्मना भवितव्यमि-