पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


रणवदित्यकारणवत् अकारणवद्यत्तनियम् । तथा चानेन नि- त्यसामान्यमुक्तमतः परमाणुमधिकृत्याऽऽह-तस्येति । तस्य प- रमाणाः कार्यं घटादि लिङ्गम् , अनुमापकम् । एवं च कार्यलिङ्गेन कारणत्वं परमाणौ सिद्ध्येन्न रूपादिषु सिद्ध्यदत आह-कारणेति ॥ रूपादीनां कारणे सद्भावात्कार्ये सद्भावः । कारणगुणपूर्वका हि कार्ये गुणा भवन्ति घटपटादौ तथा दर्शनात् । तथा रूपादिगुण- युक्तेभ्यो मृत्प्रकृतिभ्यस्तथाभूतस्य घटादिद्रव्यस्योत्पत्तिं दृष्ट्वा एत- ज्जातीयकार्यमेतज्जातीयककारणप्रभवमिति सामान्यतो रूपवत्कार्यं रूपवदुपादानकमियादिविशेषतो वा व्याप्तिं गृहीत्वा रूपादि- मदेव कारणमनुमिनोति । यच्च यदवधिभूत रूपादिमञ्च तदेव परमाणुर्नित्यश्च निरवधित्वाङ्गीकारे अनन्तावयवारब्धत्वाविशेषात् मेरुसर्षपयोः परिमाणभेदा न स्यादित्यर्थः ।

 न च परमाणरूपादिमत्वेऽपन्द्रियग्राह्यत्वरूपव्यक्तत्वानुपप- त्तेः कथं व्यक्ताव्द्यक्त मुप्तद्यते इति वाच्यम् । कारणस्य व्यक्त- त्वोपयोगिरूपादिमत्त्वप्रतिपादनेन स्वाभिमतंतन्त्रान्तरसिद्धव्यक्त त्वसूचनात् । व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यादिति । गौत- मीयसूत्रस्थव्यक्तपदेन भाष्ये रूपवतामेव नित्यानामतीन्द्रियाणा- मेव ग्रहणात् ।।

 न च व्यक्तात् घटात् व्यक्तो घट उत्पद्यमानो न दृश्यते तथा च व्यक्ताद्व्यक्तस्यानुत्पत्तिदर्शनान्न व्यक्तं कारणमिति वाच्यम् । सर्वं सर्वस्य कारणमित्यनुक्तेः, किं तु यदुत्पद्यते व्यक्तं तत्तथाभू- तादित्येवाङ्गकारात् कृतमदृष्टचरेणाव्यक्तेनेति । तथा च ।


 शब्दस्पर्शविहीनं तु रूपादिभिरसंयुतम् । ।
 त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥

इति विष्णुपुसणा-


नुसारेण रुपादिविहीनस्यैव प्रधानस्य स्वीकारे पूर्वोक्तानुमानविरो- धः, रूपादिमत्कार्यस्य रूपादिविहीनद्रव्यादुत्पाददर्शनेन व्याप्त्यग्रहे-