पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
अव्यक्तसिद्धिः ।

कायमपक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्रा- णि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति' एवं त- न्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयति, एवम- हङ्कारो महान्तमाविशन् महान्तमव्यक्तयति, महान् प्रकृतिं स्वका रणं विशन् प्रकृतिमव्यक्तयति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकायणामव्यक्तमेव । सो ऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य, स्वार्थिकः ष्यञ् । तस्मात् कारणे कार्यस्य सत एव वि. भागाविभागाभ्यामव्यक्तं कारणमस्ति ॥

मिति ।। यथा न दोषस्तथाऽनुपदमेव वक्ष्यते ।

 ननु तुल्यन्यायेन प्रकृतेरपि कारणं स्यादत आह--प्रकृतेस्तु न क्वचिदिति । अन्यथाऽनवस्था स्यात्, सा च न प्रामाणिकी । 'अजामेकाम्’ अनादिमध्यनिधनं कारणं जगतः पर’ मित्यादिश्रुति- पुराणविरोधात् ।

 कस्य कुत्राविभाग इत्यत आह । प्रकृतौ वैश्वरूपस्येति । स्वार्थिकप्रत्ययोपादानं तु कारणात्मनाऽविभागलाभाय । तेन- दुग्धे प्रक्षिप्तजलविन्द्वाद्यविभागनिरासः ।।

 अयं प्रधट्टकार्थः-कारणात्कार्यस्याभिव्यक्तिः सा कारण- कार्यविभागः । कार्यस्य लक्षणाख्यपरिणामः अतीतलक्षणः तिरो- भावापरपर्यायो ऽविभागः ॥ अव्यक्तत्वं च तत्र कारणस्य स्वस्वकार्य रूपधर्मपरिणामान्यपरिणामवत्त्वम् ।। भवति घटोत्पत्तेः प्राक् तन्नाशा- नन्तरं च घटस्वरूपधर्मपरिणामान्यः पिण्डखर्परादिपरिणामस्तद्व- त्त्वं मृदादेरिति । अत एव तत्कारणरूपमेवानभिव्यक्तं कार्यमपे- क्ष्याव्यक्तं भवतीत्युक्तिपि सङ्गच्छते ।।।

 भाष्यकारस्तु अव्यक्तत्वं सूक्ष्मत्वमियाहुः । तम् । सूक्ष्मत्वं यदि स्वकीयांपेक्षयाल्पपरिमाणवत्वं सदा परमकारणे परमसूक्ष्मम-



  ३०