पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
अव्यक्तसिद्धिः ।


चित्सुखाचार्यास्तु । वह्निरद्विष्ठार्तीन्द्रियस्थितिस्थापकेतरभा- वाश्रयः । गुणवत्वात् गुरुत्वाश्रयकुम्भवत् । विवादाध्यासितः स्फोटः उभयवादिसम्पतिपन्नस्फोटकारणातरिक्त कारणजन्यः कार्यत्वात् घटवदिति विपक्षे वह्विस्वरूपस्यैव कारणत्वात्प्रतिबन्ध- काभावकारणत्वस्य च पुरस्तान्निरस्तत्वात् मन्त्रादिसमवधानास मवधानयोरविशेषेण कार्यजनिषसंगो बाधः । द्वितीयानुमाने माया- वादिनं प्रति नेश्वर कारणत्वेन सिद्धसाधनं तस्योभयवादसम्मत- कारणतातिरिक्तत्वाभावात् ईश्वरकारणत्वस्य वेदान्तिभरभ्युपगमात् जन्यभावजन्य इतिवशेषणप्रक्षेपण भास्यापि सिद्धसाधनत्वपरि- हारसंभवात् । अनित्येषु शक्तिसिद्धौ तद्दष्टांतावष्टम्भत एव नित्ये- ष्वपि सिद्धिरित्याहुः ।

 तन्न । आद्ये क्षेत्रज्ञसमवाय्यदृष्टानाभिव्यक्तकार्याभ्यामर्थोतर- तापत्तेः । द्वितीये विवादाध्यासितः स्फोटः उभयवादिसंप्रतिप- न्नस्फोटकारणातिरिक्त कारणजन्यो न भवति तथानुपलभ्यमान- त्वात् । यत् प्रमाणेन यथा नोपलभ्यते न तत्तथा मतं, यथा न नीले रूपं पतरूपमिति प्रतिपक्षसंभवः । नच माणिमन्त्रादिसमवधानासम- वधानयोरविशेषेण कार्यजननमसंगो बाधः । अतिरिक्तशक्तिवादि- मतेऽपि प्रसंगस्य संभवात् । नच वाच्यं मणिमन्त्रादिना शक्तिर्नाश्य- ते उत्तेजकादिना च पुनर्जन्यत इत्यंगकारान्न दोष इति । तथासति शक्तैरपि कार्यत्वेन कारणांतरापेक्षायामनवस्थापत्तेः । अन्यथा तव मतेऽपि अविशेषेण कार्यजननापत्तेः । मणिमन्त्रादिना दाहप्रति- पक्षभूतस्य क्षेत्रज्ञसंमवायनोऽदृष्टस्योत्पत्यङ्गीकारेण तदा दाहजन- कादृष्टभावान्मन्मते तादृशकार्यजननप्रसङ्गासम्भवञ्च। एवमौषध- लिप्तकाष्ठादिष्वपि न दाहस्तत्राप्यौषधलेपकारिपुरुषसमवेतादृष्ट- स्य दाहप्रतिपक्षभूतस्योत्पत्त्या दाहजनकादृष्टाभावात् । एवमन्य- त्रापि बोध्यम् ।