पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

स्यादेतत्-शक्तितः प्रवृत्तिः कारण कार्य विभागावि भागौ च महत एवं परमाव्यक्तत्वं साधयिष्यतः, कृतं ततः परेणाव्यक्तेनत्यत आह--‘परिमाणात्” इति । परिमितत्वात् , अव्यापित्वादिति यावत् । विवादाध्या- सिता महदादिभेदा अव्यक्तकारणवन्तः, परिभितत्वात् घटादिवत् । घटादयो हि परिमिताः मृदाद्यव्यक्त- कारणका दृष्टाः । उक्तमेतद्यथा कार्यस्याव्यक्तावस्था कारणमेवेति, यन्महतः कारणं तन् परमाव्यक्तम्, ततः




 प्रयोगश्च-विवादाध्यासिता भेदाः शक्तिमत्कारणकाः कार्य- त्वात् घटवत् । शक्तिमत्त्वञ्च कारणस्यानभिव्यक्तकायश्रियत्वं तदे- वाव्यक्तत्वं । तेन व्यक्ताद्व्यक्तोत्पत्तिमादाय नाथन्तरता । विपक्षे सिक्तातस्तैलोयापत्तिर्बाधः ।।

 ननु पारिभाषिकाव्यक्तत्वस्य परमाणुषु महत्तत्वाहङ्कारपञ्च तन्मात्रान्यतमेषु वा सम्भवे कुतं ततः परेणाव्यक्तेनेत्याशङ्कानिरा- साय परिमाणादिति मुलमवतारयति--- स्यादेतदिति ।।

 अन्ये तु व्यक्तोपादानकं विश्वं कार्यत्वात् घटवदिति शङ्कते- स्यादेतदिति । परिछिन्नत्वमुपाधिमाह-परिमाणादिति । सत्प्रतिपक्षमाह-विवादतीत्याहुः । ।

 तन्न । व्यक्त द्व्यक्तमुत्पद्यत इत्यादिना पौनरुक्त्यापत्तेः । श- क्तितः प्रवृत्तिरियादित्रयाणां हेतुत्वप्रतिपादकमूलचिरोधापत्तेचे ! महत एवेत्यत्र महत्पदमुक्तपरमाण्वादिरूपलक्षकम् । ननु परिमितत्वं संख्येयत्वं तञ्च प्रधानेऽप्यस्तीत्यत आह । अव्यापित्वादिति । अव्यापित्वं च दैशिकं कालिकं च बोध्यं नतु वस्तुपरिछिन्नत्वरूपं - चैतन्यनिष्ठभेदप्रतियोगितावच्छेदकत्वरूपवस्तुपरिच्छिन्नत्वस्य प्रधा- नेऽपि सत्वेनोक्तदोषानुद्धारात् ।

 ननुमृदादेर्व्यक्तत्वाद्द्दष्टान्तासिद्धिरत आहोकमेतदिति ।