पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
अव्यक्तसिद्धिः ।

धिष्ठातृत्वं यथा न सम्भवति तथा वक्ष्यते इत्युक्तं पुरस्तात् ।

 *एतेनैतदनुमाने दोषाभावेऽपि चेतनं नाचेतनाधिष्ठातृ निर्गुणत्वादित्यनुमाने चेतनं अचेतनाधिष्टातृ चेतनत्वात्कुला- लादिबदिति सत्प्रतिपक्षविधया दोषत्वं सम्भवतीति परास्तम् । चेतनस्याचेतनाधिष्ठातृत्वसम्भवस्य वक्ष्यमाणत्वात् । ।

 यदपि द्वितीये चासिद्धमिति तन्न । आकाशं सदित्यादि- तः कालत्रयावाध्यत्वरूपसत्ताविषयकत्वासम्भवात् । नहि का- र्यं कालत्रयाबाध्यञ्चति सम्भवति । इदानमिदं कार्यं न तदानी- मित्यादिप्रतीतेः वर्तमानमात्रग्राहिणा प्रत्यक्षेण कालत्रयावाध्य- त्वरूपसत्त्ववग्रहणासम्भवा्ञ्च ।

 नन्वेवं प्राणा वै सत्यं तेषामेव मत्यमिति प्रधानभूतप्राणग्रह- णोपलक्षितस्य कृत्स्नमपञ्चस्य यत्सत्यत्वं तत्परमात्मन एवेति बो- धनपरश्रुतिविरोधः । नच प्राणग्रहणस्योपलक्षणत्वे मानाभाव इति वाच्यम् । ब्रह्मस्वरूपप्रतिपादनपरे वाक्ये प्रपञ्चैकदेशभूत- प्राणग्रहणे प्रयोजनाभावेन कृत्स्नप्रपञ्चोपलक्षणे तु सत्यत्वेन प्रसि- द्धपश्चाधिष्ठानतया ब्रह्मैव परमार्थसत्यं नतु प्रपञ्चस्तस्य श्रुतिबा- धितत्वेन परमार्थसत्यत्वायोगादिति अद्वितीयब्रह्मप्रमितिरूपप्रयो- जनसत्वेनोपलक्षणत्वे तात्पर्यावधारणे एतच्छुतेरेव मानत्वात् ।

 इति चेन्न । राजराजो मन्मथमन्मथः श्रीराम इत्वादिवत् उत्क- पापकर्षप्रतीतः । नच राजत्वं पालकत्वरूपं नियन्तृत्वं तच्च पाल्य- देशसापेक्षं, तथाच भुपे देशविषयकपालनानुकूलकृतिमत्त्वमुत्कर्षः । एवं मन्मथो नारायणपुत्रः सुन्दरस्तदपेक्षयोत्कृष्टरूपादिमत्वमेव राम उत्कर्ष इति प्रतीतिसम्भवेऽपि प्राणा वै समित्यत्र तादृशता- त्पर्यग्राहकाभावेनोत्करषा पकर्षौ च सम्भवत इति वाच्यम् । श्रोत्र- स्य श्रोत्रं, मनसो मन' इत्यादौ श्रोत्रस्य श्रोत्राप्रसिद्धिवदत्रापि स- त्यस्य सत्याप्रसिद्धेस्तद्ग्राहकत्वात् ।