पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

परतराव्यक्त कल्पनायां प्रमाणाभावात् ॥

 इतश्च विवादाध्यासिता भदाः अव्यक्तकारणवन्तः “ममन्वयात्” । भिन्नानां समानरूपता समन्वयः । सु- ग्वदुःग्वमोहसमन्विता हि बुद्ध्यायो ऽध्यवसायादिल- क्षणाः प्रती़** न्ते । यानि च यद्रूपसमनुगतानि तानि त-


 नच प्राणाः मचे प्राणः सन् घटः सन्नित्यनुगत प्रतीत्या स- त्ताजातिरूपमभ्युपेयं तस्य सर्वत्रैकरूपतया तत्रोत्कर्षाद्यसम्भव इति वाच्यम् । तत्रासम्भवेऽपहेदानीं प्राणोऽस्तीत्यादिप्रतातीया प्राणे प्र- तीयमानतत्तद्देशकालसम्वन्धरूपं, प्राणो नास्तीत्यादौ प्राणास्तिता- निषेधत्वेन रूपेण प्राणस्वरूपनिषेधस्यैवानुभवेन प्राणादिस्वरूप वा सत्त्वमभ्युपेयं तयोभूयोदेशकाळाल्पदेशकालसापेक्षतया तत्रोत्कर्षा- दिसम्भवात् ।

 चेतनस्य सुखाद्युपादानत्वानिराकरणाय परमाव्यक्तस्य सुखा- द्यात्मकत्वं साधयति-इतश्चेत्यादिना । अनुमानप्रकारमाह- विवादति । भिनानां विशेषकार्याणां घटशरावादीनां सरूपता कारणमृदाद्यात्मकता । तथाच कार्यत्वे सति तदात्मकत्वा- दिति हेतुरित्यर्थः । प्रधाने व्यभिचारवारणाय संत्यन्तं । विशेष्य- निवेशाञ्च न चैतन्येनार्थान्तरापत्तिः । कारणे सुखाद्यात्मत्वासद्धये कार्ये मुखादिसमन्वयं दर्शयति-सुखेत्यादि । बुद्ध्यादय इयत्रा- दिपदेन कार्यमात्रं गृह्यते । यथा कार्यमात्रस्य सुखाद्यात्मकत्वं तथो- के प्राक् । अत्र सामान्यव्याप्तिमाह-यानिचेति । यद्रूपसमनुग- तानि-यत्स्वभावात्मकानि । एतेनयद्यदन्वितं तत्तदुपादानकमिति न व्याप्तिः । जात्यन्वितानामपि तदुपादानत्वाभावात् । येन द्रव्येण यदन्वितं तत्तदुपादानकमित्यपि न, द्रव्यपरिभाषाया अप्रयोजकत्वा- त् । तत्परिभाषावलम्बनेऽपि सुखादीनामद्रव्यतया तदुपादानत्वा |