पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


यम् । नाद्यः । केवलचेतनस्य प्रवुत्त्याश्रयतया तत्प्रयोजकतया वेन्द्रि येणाग्रहणात् । न द्वितीयः । तस्याचेतनत्वात् । मृदादिनिष्ठप्रवृते द्देहाधीनप्रवृत्तिकत्वेऽपि न चेतनाधीनप्रवृत्तित्वमिद्धिः । न तृतीयः । मृतशरीरविशिष्टेन प्रवृत्यदर्शनात् ।।

 एतेन ‘रचनानुपपत्तश्च नानुमान' मित्यधिकरणे[१] मृत- शरीरे प्रवृत्यदर्शनात् तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकसह- कृतपत्यक्षेण प्रवृत्तचेतनहेतुकत्वे निश्चिते मृदादिनिष्ठप्रवृत्तेपि चेत- नहेतुत्वानुमानादिति कल्पतरुकारोक्तं परास्तम् । मृतशरीरेऽपि व्यापकस्य चैतन्यस्य व्यतिरेकासम्भवात् । आत्मनो मध्यमपरिमा- पाङ्गीकारेऽनित्यत्वापत्तेरणुपरिमाणाङ्गीकारे च जाह्नवीजलनिमग्नस्य सर्वशरीरावच्छेदेन शैत्यानुपलम्भप्रसङ्गात् । अन्वयमात्रेण तस्य प्रवृत्तिहेतुकत्वाभ्युपगमे आकाशस्यापि तथापत्तेः । अत एव पर- माण्वादयो हि चेतनेनापयोजिता प्रवर्तन्तेऽचेतनत्वाद्वास्यादिवदि- त्युदयनाचार्योक्तमनुमानं परास्तम् । उक्त विकल्पग्रासात् ।

 यत्तु कुसुमाञ्जलिप्रकाशकाराः -सर्गाद्यकालीनद्व्यणुकोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वाचेष्टावदिति । विपक्षे बाध- कं चेतनव्यापारस्यान्यत्रोपलब्धस्याभावे क्रियारूपत्वाभाव इति उदयनाचार्योक्तानुमानस्य तात्पर्य माहुस्तन्न । हिताहितप्राप्तिपरि- हारफलकक्रियात्वस्य साध्यव्यापकस्यैश्वरे फलाभावेन पक्षे साध- नाव्यापकत्वेन चोपाधित्वात् । नच तस्य विषभक्षणोद्वन्धन- क्रियायामहितमरणादिप्रापिकाया साध्याव्यापकत्वमिति वाच्यम् । तत्र कुष्टादिमहारोगराजदुःखाद्यभावस्येवोद्दश्यत्वेन तमादायैव सा- ध्यव्यापकत्वनिर्वाहात् । तत्र मरणस्य नान्तरीयकतया मुख्य फलस्वाभावा्ञ्च् ।

 न च चेतनसापेक्षभ्रमजन्याक्रियायाः हितरज्ज्वप्रापकत्वाद-



  १ ब्रह्मसूत्रे अ० १ पा० २ अधि० १ सू० १ ॥