पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
अव्यक्तप्रवृत्तिप्रकारः ।

स्यादितत्-कथभेकरूपाणां गुणानामनेकन्वया प्रवृत्तिरि- त्यत अह--"परिणामतः सलिलवत् इति । यथा हि चारिदविमुक्तमुदकमेंकरभमपि तत्तदुभूविकाराना- साद्य नारिकेलतालतालिबिल्वचिरबिल्वतिन्दुकामल- कप्राचीनामलककपित्थफलरसलया परिणमन्मधुरम्ल




भूयमानत्वमभिभावकना च स्वयरिणामविशेषं विना न भवेदित्यर्थः । तशाच परिणामांविशेषा एवात्यन्तविपदृश परिणाम निमित्तमित्यर्थः ।

 भाष्यकारास्तु काल एव निमित्तमित्याहुः । नचैवं-----



 गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ।
 गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ।।

 इति विष्णुपुराणविराधः । क्षेत्रज्ञाधिष्ठितत्वस्य पुरुषार्थतत्संयोग- चत्वस्यैव विवक्षितत्वात् । गुणव्यञ्जनं महत्तत्वं । कारणतया त्रिगुणा- त्मकप्रधानव्यञ्जकत्वाद्व्याञ्जनं व्यञ्जकमित्यर्थः ।

 ननु गुणप्रधानभावेन मिलित्वा महत्वजनकत्वेऽपि तत्र सत्वस्य प्राधान्य वाच्यम् । तथाच सत्वप्रधानमहत्तत्त्वसमष्ट्रिजनकसामग्री- घटकगुणानां नानासामग्रीष्वपि सत्व प्रधानरजतप्रस्त्वेनैकरूपत- यैकजातीयसामग्रीत्वापतौ एकरूपमसामग्री एकरूपमेव कार्य जन- यतीति नियमादेकरूपमेव महत्तत्वसमष्ट्रकार्यं स्यात् नचेष्टापत्तिः । महत्वानां परस्परावलक्षणाना[१]मनर्थवादित्याशङ्को-स्या- देतदिति । नहि दृष्टेऽनुपपन्नं नामेतिन्यायेन सहकारिभेदेन सामग्रीभेद इति समादधत् प्रथमतो दृष्टान्तं विवृणोति-यथा- हीति । विपरिणामत इत्यस्य तत्तद्भूपरिणामनारिकेलादिसह- कारिभेदादित्यर्थः । एकरसं मधुरसं । ताली तालवृक्षविशेषः चिर- बिल्वो नक्तमालः । अत्र तिन्दुकान्तानां प्रत्येक मधुररसवा- विशेषेऽपि अन्तरवैलक्षण्यसूचनाय बहूनां ग्रहणं प्राचीनामलको



  १ अविलक्षणानामनुभवादिति क्वचित्पाठः ।