पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 संघातपरार्थत्वात्” इति । पुरुषो ऽस्ति, अव्यक्ता-- देर्यतिरिक्तः । कुतः ! “संघातपार्थत्वात्" । अ- व्यक्तमहदहङ्कारादयः परार्थाः, संघातत्वात्, शयनास- नाश्यङ्गादिवत्, सुखदुःखसमोहात्मकतया ऽव्यक्तादयः सर्वे संघाताः ॥




 धर्मिणो विवादाभावादाह-अव्यक्तादेर्व्यतिरिक्त इति

 ब्राह्मणोऽहं गोरोऽहं काणोऽहं गछामि तिष्ठामि सुख दुखी वाहमित्यभिमानवानान्मनोऽव्यक्ताद्यतिरिक्तत्वमसहमानः पृच्छति- कुत इति । उत्तरमाइ-संघातेति । ननु संधातपरार्थत्वस्य पुरुषरूपपक्षऽवृत्तित्वान्न तत्साधकत्वमिति चेन्न । ईश्वरोऽस्तीति वादिनोक्ते कुल इति प्रतिवादिना पृष्ठे कर्तुजन्यत्वनियमादित्यादिव- देतादृशप्रतिज्ञादः प्रकृतन्यायानवयवत्वात् इत्यभिप्रायेणैव न्या- यायप्रतिज्ञां दर्शयति-अव्यक्तमहदहंकारय इति । न- चाव्यक्तादय इत्येव वक्तुमुचितमिति वाच्यम् । प्रत्येकमपि प- क्षतासम्भवसूचनाय तुथोपादानात् ॥

 परार्थाः । स्वातिरिक्तदृष्टशषाः । तत्त्वं च सुखदुःखान्यतरसा- क्षात्कारभोगरूपप्रयोजनार्थत्वम् । भोगस्य च जडे बाधाञ्चेतनस्तद्वा- न्पुरुषोऽस्तीति भावः । शयनं शय्या । ननुसंघातत्वमारम्भकसंयोग- सम्बन्थेन संहन्यमानत्वमारम्भकसंयोगवमिति यावत् । तच्चाव्य- तेऽन्त्यावयाविनि चाव्याप्तंसंयोगस्योभयनिरूपणाधीनतया स्वेतरपु- रुषाादिसत्त्वेऽपि तस्यारम्भकसंयागानिरूपकत्वात् ।अन्त्यावयविनश्चा- रम्भकसंयोगाभावादित्याशङ्क्याह-सुखेत्यादि । तथाचगुणत्रया- त्मकत्वादब्यक्ते अवयवावयवभेदाञ्चान्त्यावयाविनि नाव्याप्तिरित्य- र्थः । प्रयोगस्तु अव्यक्तादयः संघातास्सुखाद्यात्मकत्वात् सम्प्रति- पन्नवदति ॥

 भाष्यकारास्तु । पातञ्जले च ‘परार्थं संहत्यकारित्वा’ दितिसुत्रं