पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

र्था दृष्टाः न त्वात्मानमव्यक्ताद्यतिरिक्तं प्रति परार्थाः । तस्मात् संघातान्तरमेव परे गमयेयुः, न त्वसंहतात्मा- नम् इत्यत आह-* त्रिगुणादिविपर्ययात् ॥ इति । अयमभिप्रायः-संघातान्तरार्थत्वे हि तस्यापि संघात-




तदर्थ सभां कुर्वतो जनकस्थ राज्ञो विदुषश्च जयभाजो याज्ञव- ल्क्यस्य दोषापत्तेः । न चेष्टापत्तः परोपकारकत्वेन तेषां दोषा- सम्भवात् । कथकमध्ये राज्ञो गणनाञ्च । ।

 तदुक्तं वरदराजीये-कथकौ विद्यातः सम्भावितसाम्यौ स्या- ताम् । अन्यथाविशेषप्रयोजनायाः कथायाः पुनरानर्थक्यप्रसङ्गात् । सदस्यास्तु वादिप्रतिवादिनां सम्मताः सिद्धान्तद्वयरहस्यवेदिनो रागद्वेषविरहिणः पराभिहितग्रहणावधारणप्रतिपादनकुशलास्त्र्यवरा विषमसङ्ख्याकाः स्वीकार्याः । तथा च स्मरन्ति ।


 रागद्वेषविनिर्मुक्ताः सप्त पञ्च त्रयोऽपि वा ।
 यत्रोपविष्टा विप्राः स्युः सा यज्ञसदशी सभेति ॥


 सदस्यानां तु प्रमेयविशेषस्य वादिप्रतिवादिनोश्च नियमनं पर्यनुयोज्योपेक्षणोद्भावनादोषेण कथकगुणदोषावधारणं भग्नप्र- तिबोधनं मन्दस्यानुभाष्य प्रतिपादनामति कर्मणीति । सभापति- र्निग्रहानुग्रहसमर्थः । तस्य निष्पन्नकथाफलप्रदानादिकं कर्मेति । नत्वात्मानं प्रति ॥ नतु भवदभिमतासंहतात्मानं प्रतीत्यर्थः । उपसंहरात तस्मादिति ॥

 सिद्धसाधने दूरीकुर्वन् संघातवादिने प्रति त्रिगुणादिविपर्य- यस्य हेतोः स्वरूपासिद्धिं दूरीकुर्वन्पूर्वहेतोरभिप्रायमाह- अयमभिप्राय इति

 केचित्तु नह्यचेतनमचेतन प्रयोजनकं दृष्टमित्याहायमभि- प्राय इतत्याहुस्तन्न । अचेतनशयनासनादेरचेतनसंघातशरी- राघार्थत्वोक्त्या नुक्तोपालम्भात् असंघातपरस्यैव व्युत्पादना-