पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
पुरुषसिद्धिः ।


ठत्वादिकम् । तस्मादाचार्येण 'त्रिगुणादिविपर्ययात्' इति वदता ऽसंहतः परो विवक्षितः, स चात्मेति सिद्धम् ॥




नधिष्ठेयमप्रत्क्षत्बादीश्वरवद्व्यतिरेकेण मृदादिवच्च अस्वभोगाहेतुत्वे सतीति विशेषणाच्चक्षुरादौ न व्यभिचारः । नच यद्येनाधिष्ठेयं तत्त- दीयभागहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्य भिचारताद्वस्थ्यमिति वाच्यम् । भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात् । करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । नच विशेष्यवैयथ्यं परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् । नच प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः । अतीन्द्रियत्वरूपाप्र- त्यक्षत्वस्य सत्त्वात् । नच हेतोरप्रयोजकत्वम् । अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमात्प्रधानादेः प्रेयत्वाङ्गीकारे प्रेरकभोगहेतुत्वापत्तेः । नचेष्टापत्तिः । जीवे करणकृतभोगवदीश्वरे प्रधानादिकृत- भोगापत्तेति ॥

 तन्न । भोगाहेतुत्वपदेन भोगहेतुत्वसामान्याभावविवक्षायां परार्थपाचकाधिष्ठेयकाष्ठादाबुक्तसामान्याभावाभावन व्यभिचारा सम्भवे विशेष्यवैयर्थ्यापत्तेः । स्वभौगहेतुत्वसामान्याभावविवक्षणे चक्षुरादौ व्यभिचारतादवस्थ्येन विशेषणवैयर्थ्यपत्तेः । स्वप्रेरक- भोगहेतुत्व सामान्याभावविचक्षणेऽपि स्वपदार्थस्याननुगतत्वेन इन्द्रि- याणां प्रतिपुरुषभेदेन भेदादेकपुरुषायेन्द्रियोपादाने अन्यपुरुषा- येन्द्रियेषु व्यभिचारतादवस्थ्येनोक्तदोषानिवृत्तेः । स्वपदस्यानु- गतातीन्द्रियसामान्यपरत्वे पुरुषाणां तत्प्रेरकत्वबाधेनेश्वरे च 'जीवे करणकृतभोगव' दियादि वदता त्वयापि तत्प्रेरकत्वानङ्गीकारेण विशेषणासिद्ध्या स्वरूपासिद्ध्यापत्तेः । अत एव स्वपदस्थेन्द्रिय सा- मान्यपरत्वमपि न सम्भवतीन्द्रिय सामान्यप्रेरकाप्रसिद्ध्या स्वरूपा: 'सिद्ध्यापत्तेः ।।

 यदुक्तं नच हेतोरप्रयोजकत्वमतीन्द्रियस्य प्रेर्यस्य भौगहेतुत्व-