पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


इतश्च परः पुरुषोऽस्ति-“अधिष्ठानात् । त्रिगुणा- मकानामधिष्ठीयमानत्वात् । यद्यत्सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीयमानं दृष्टम् , यथा रथादिर्यन्त्रादि-




नियमात्प्रधानादेः प्रेयत्वाङ्गीकारे प्रेरकभोगहेतुत्वापत्तेः । नचेष्टा- पत्तिः । जीवे करणकृतभोगवदीश्वरे प्रधानादिकृतभेगापत्तेरिति ।

 तदप्यसुन्दरं । यद्येन प्रर्यं तत्तदीयभोगहेतुति नियमस्य परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारस्य त्वयैव दर्शितत्वादीश्वरे प्रधानादिकृतभोगापत्त्यसम्भवात् । तथा चाप्रयोजकत्वं तद्वस्थ- मेवेति भावः ।

 केचित्तु प्रधानादेश्चैतनानिधिष्ठेयत्वाभ्युपगमेन सिद्धसाधनमि- ति । तन्न । सामान्येन विवादाभावाद्धर्मवन्न साधनम् । शरीरादिव्य- तिरिक्तः पुमान् । संघातपरार्थत्वात् । त्रिगुणादिविपर्ययात् । अधिष्ठानाञ्चेतीतिसूत्रेषु शरीरादीत्यादिपदग्रहणेन प्रधानादेरपि ग्रहणात् । अन्यथा पुरुषे शरीरव्यतिरिक्तत्वासद्धावपि प्रधानादि- व्यतिरिक्तत्वासिछ्यापत्तेः । नचेश्वरप्रतिषेधाज्जीवस्य च प्रधानाद्य- धिष्ठातृत्वासम्भवात्प्रधानादेर्न चेतनाधिष्ठेयत्वमिति वाच्यम् । ई- श्वरप्रतिषेधस्यान्यार्थत्वात् । जीवस्य च संयोगविशेषेण परिणाम- हेतुत्वरूपाधिष्ठातृत्वसम्भवाञ्च । संयोगविशेषेणेत्पत्र विशेषपदो- पादानस्यातन्द्रियसामान्यपरत्वे पुरुषाणां तत्प्रेरकत्वबाधेनेत्यु- क्तिविरोधः ।

 हेत्वन्तरमाह-इतश्चेति । अव्यक्तादेरन्य इति शेषः । तेन न सिद्धसाधनं । अत एव सच परः त्रैगुण्यादन्य इति वक्ष्यमाणमपि संगच्छते । अधिष्ठानपदस्य प्रकृतोपयोग्यर्थमाह-त्रिगुणात्मकाना- मिति। अधिष्ठानपदस्याधिष्ठीयमानत्वपरत्वेऽपि पुरुषेऽवृत्तित्वात्पृ- कृतिन्यायानवयवत्वमित्यत आह-यद्यदिति । तथा च विवादा- ध्यासितमव्यक्तादि परेणाधिष्ठितमचेतनत्वात् । यन्त्रोद्यधिष्ठितर-