पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

व्यम् । न चानुकूलनीयाः प्रतिकूलनीय वा बुद्ध्यादयः, तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्तिविरोधात् । तस्मात् यो ऽसुखाद्यात्मा सो ऽनुकूलनीयः प्रतिकूल नीय वा, स चा ऽऽत्मेति ॥

 अन्ये वाहुः-भोग्या दृश्या बुद्ध्यादयः । न च द्र-




भावादाह-वेदनये इति । तादृशानुभवो नास्येवेत्याशङ्क्याह- प्रत्यात्ममिति । तथा चाहं सुखी अहं दुःखीति प्रत्यात्ममनुभ- वादित्यर्थः । अनुमानप्रकारमाह-तेनेति । तथा च सुखदुःखेपरार्थे इच्छाविषयत्वाद्गृहादिवत् । जिहासां शत्रोः दुःखं भवात्वितीच्छां बादाय दुःखेऽपि हेतुसत्वान्न हेत्वसिद्धिः । अनयोः सुखदुःखयोः, अनुकूलनीयेन स्वविषयकेच्छाश्रयेण, प्रतिकूलनीयेन स्वविषयक जिहासाश्रयेण । नचेछादेरेतन्मतेऽन्तःकरणनिष्ठत्वात्कथं पुरुषा- श्रयत्वमिति वाच्यम् । पुरुषस्थ तत्प्रतिबिम्बाश्रयत्वेन तदाश्रयत्वो- पचारात् ॥ सुखदुःखे स्वार्थे एव भवेतामित्यत आह नचेति ।

 अन्ये तु । सुखदुःखे भोक्तृपूर्वके भोग्यत्वादियुक्ते बुद्ध्या- दीनां भोक्तृत्वात्सिद्धसाधनमित्यत आह-नचचेतीत्याहुः । तत्र यु- क्तिमाह स्वात्मनि वृत्तिविरोधादिति । नहि सुशिक्षितोऽपि नट- वरवटुस्स्वस्कन्धमारुह्य गच्छतीति दृष्टचरमिति भावः । नच पर एय सुखादिरूप एव भवत्विति वाच्यम् । अप्रमाणकाव्यवस्थापत्तेः । उपसंहराति-तस्मादितिअसुखाद्यात्मासुखाद्यात्मत्वा- त्यन्ताभावाधिकरणः ।।

 आत्मेन्द्रियमनोयुक्तम्भोक्तेत्याहु र्मनीषिणः ।

 इति स्मृतिमनुसृत्याह-सचात्मेति । मतान्तरमाह अन्येत्विात भोक्तभावेन परम्परया दृश्या बुद्ध्यादयो लक्षणीया इत्याह-भो- ग्याइति । अनुमानप्रकारमाह नचद्रष्टारमिति । तथा च वि- वादाध्यासिता बुद्ध्यादयः परप्रकाश्या दृश्यत्वात् घटादिवत् । वि-