पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


यितुं शक्यन्ते । तदातरक्तस्थ त्वतदात्मनस्ततो वियोगः शक्यसम्पादः, तस्मात् कैवल्यार्थं प्रवृत्तेरागमानां महा- धियां चास्ति बुद्व्यादिव्यतिरिक्त आत्मेति सिद्धम् ।।१७॥

 तदवं पुरुषास्तित्वं प्रतिपाद्य, स किं सर्वशरीरेष्वेकः किमनेकः प्रतिक्षेत्रमिति संशये, तस्य प्रतिक्षेत्रमने- कत्वमुपपदयाति-जननेत्यादिना ।


 जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
 पुरुषबहुत्वं सिद्धं त्रैगुण्याविपर्ययाञ्चैव ॥ १८ ॥


 “पुरुषबहुत्वं सिडम्” । कस्मात् १ “जनमरण करणानां प्रातनियमात्” । निकायविशिष्टाभिरपूर्वा-


गस्यैवासम्भवात् । तदतिरिक्तस्य तु सम्भवतीत्याह-तादितिरि- क्तस्येति । उपसंहरति-तस्मादिति । महाधियां श्रवणमननादि- नात्मतत्वे विपरीतभावनादिनिरासाद्यथार्थनिर्णयवतामित्यर्थः॥१७॥

 उपजीवकत्वसङ्गतिसूचनाय पूर्वोक्त मनुवदन्नुत्तरग्रन्थमवतार- यति-तदेवमिति । संशयं प्रदर्श्य स्वसिद्धान्तमाह-प्रतिक्षेत्र मित्यादिना । जननमरणयोरुत्पत्तिाविनाशयोः पुरुषेऽसत्वे हेत्व- सिद्धिस्सत्वे चानित्यत्त्वापत्तिरित्याशङ्क्याह-निकायेति । एत- स्यैवार्थमाह-देहतिअभिसम्बन्धः संयोगः । तथाचापूर्वदेहेन्द्रि- यादिसंघातविशेषेण संयोगो जन्म, तद्वियोगो मरणमित्यर्थः। पूर्वोक्त एव वा सम्बन्धो ग्राह्यस्ताद्वयोगश्च मरणम् । नचापूर्वशरीरसम्ब- न्धो जन्मेत्येवास्त्विति वाच्यम् । भोगतदभावनियामकयोरेव जन्ममरणयोरत्र विवक्षितत्वात् । अतएव निकायग्रहणम् । नचैवं सुखदुःखान्यतरसाक्षात्कारभोगनियामकसुखस्याग्रहणान्न्युनतेति वाच्यम् । सुखस्यानित्यतया तुन्नाशज्ञानद्वारो दुःखप्रयोजकत्वा- द्रौणदुःखत्वसम्भवे दुःखग्रहणेन तद्रहणसम्भवात् । दुःखज-