पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
पुरुषबहुत्वसिद्धिः ।


भिर्देहेन्द्रियमन्होङ्कार वुद्धिबेदनभिः पुरुषस्याभिस- म्वन्धो जन्म, न तु पुरुषस्थ परिणामः, तस्यापरि- शामित्वात् । तेषामेव च देहादीनामुपात्तानां परि- त्यागो मरणम्, नत्वात्मनो विनाशः, तस्य कूटस्थानि त्यत्वात् । करणानि बुढ्यादीनि त्रयोदश । तेषां जन्म- मरणकरणानां प्रतिनियमो व्यवस्था । सा खल्वियं सर्व- शरीरध्वेकस्मिन् पुरुषे नोपपद्यते । तदा खल्वेकस्मिन् पुरुषे जायमाने सर्वे जायेरन्, म्रियमाणे च म्रियेरन् , अन्धादौ चैकस्मिन् सर्व एव अन्धोदयो, विचित्ते चैक- स्मिन् सर्वे एव विवित्ताः स्युरित्यव्यवस्था स्यात् । प्रति-




न्मेत्यादिसूत्रीयभाष्ये शरीरेन्द्रियबुद्धीनां निकाय विशिष्टः प्रादुर्भावो जन्मति दुःखाघटितं विशिष्टमेव जन्मेत्युक्तं, तदपि जन्मनो दुःख- प्रयोजकत्वसूचनाय । अन्यथाद्यप्राणशरीरसम्बन्धो जन्मेसेच सा- मञ्जस्येऽधिकवैययपत्तेः । प्रधानवान्नित्यत्वव्यावर्त्ततायाह-कूट- स्थाति । तत्त्वं च परिणामानाश्रयत्वम् । व्यवस्थेति । जन्मदिन व्यवस्थितत्वं च स्वाभावतद्व्याप्याविरुद्धत्वम् । एतस्यापि प्रकृतन्या- यानवयवत्व बोध्यम् ।।

 अनुमानप्रकारस्तु । विवादपदानि शरीराणि स्वसंख्यासं- ख्येयात्मभिरात्मत्ववन्ति शरीरत्वाद् ! सुम्पतिपन्नशरीरवत् । यद्वा विवादाध्यासिताः पुरुषाः परस्परभिन्नाः विरुद्धमाश्रयत्वादुभये- सम्प्रतिपन्नवदियादि । विपक्षे बाधकमाह-तदा खल्वित्यादिना । विचित्तत्वं विक्षिप्तत्वं सूक्ष्मविषयनिर्णयासमर्थत्वं वा । तथाच यदि चैत्रशरीराधिष्ठाता मैत्रशरीराधिष्ठातुभिन्नः स्यात्तदा मैत्रशरीर- जन्ममरणेन्द्रियतज्जन्यज्ञानादिमान्स्यात् । मैत्रशरीराधिष्ठातृवदिति प्रसंगार्थ इत्यर्थः । विवादास्पदीभूतानि भोगायतनानि । उभयवा- द्यविवादास्पदस्यैव भोगायतनानि भोगायतनत्वात्प्रतिवादिभोगा-