पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
पुरुषबहुत्वसिद्धिः ।

ततश्च सवाघेव शरीराणि युगपचालयेत् नानात्वे तु नायं दोष इति ।

 इतश्च पुरुषभेद इत्याह-"त्रैगुण्यविपर्ययाश्चैव" इति । एवकारो भिन्नक्रमः ‘सिद्धम्' इत्यस्थानन्तरं द्रष्टव्यः, सिद्धमेव नासिद्धम् । त्रयो गुगास्त्रैगुण्यम् तस्य विपर्य- योऽन्यथात्वम् । काचेत्खलु सत्त्वांनकायाः सत्वबहुलाः, यथोर्ध्वस्रोतसः; केचिद्रज्ञोबहुलाः, यथा मनुष्याः, के-




नुक्तसुखाद्यव्यवस्थासमुच्चायकः । चरमस्तूक्ताव्यवस्थासमुञ्चाय- क इति । स्वपक्षे दाषाभावमाह-नानात्वेति । एतेन यश्चभियो- रित्यादिन्यायोक्तो दोषः परिहृतः ।। सत्बनिकायाः प्राणिसमू- हाः । ऊर्द्धस्रोतसः देवाः । निर्यग्योनयः पशुपक्ष्यादयः । अ- त्रापि विरुद्धमाश्रयत्वमेव हेतुः । अनुमानप्रकारस्तु उक्तप्राय- एवेति ध्येयम् ।

 वेदान्तवादिनस्तु । अनेक पुरुषाङ्गीकारेऽपि एकस्य पुरुषस्या- पृर्वदेहादिसम्बन्धे जायमानेऽन्येषामपि विभुत्वात्तत्सम्बन्धावश्यक- त्वेऽव्यवस्था तदवस्थैव । एवङ्कणादानामपि । यदैकैनात्मना मनः संयुज्यते तदाऽऽत्मान्तरैरपि नान्तरीयसंयोगसंभवे हेत्वविशेषादे- कात्मनः सुखदुःखयोगे सर्वेषां सुखादयोगापत्तेः । न चादृष्टनिमित्तो नियमः । सर्वात्मसन्निहितैरेहेतुभिर्मनोवाक्कायैनिर्वर्त्तितस्यादृष्टस्यास्यैः वात्मन इदमदृष्टं नान्यस्येति नियमहत्वभावात् ॥

 यत्तु इदं फलं प्राप्नवानि इदं परिहराणि इत्थं प्रयते इत्थं करवाणीयेवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्त्तमाना अदृष्टस्या- त्मनां च स्वस्वामिभावं नियंस्यन्तीति तदपि न । तेषामपि सर्वा- त्मसन्निधौ जायमानानां नियमहेत्वभावात् । एतेन स्वभुक्तवृत्ति- वासनावत्त्वरूपस्वत्वमेव नियामकं तच्चानादीति परास्तम् । सर्वा- त्मसन्निधौ जायमाने सुखादा चर्थोपरक्तद्युत्तिमति आत्मनि प्रति-