पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

पपत्तिः । अध्यासस्तु उपचाररूपो लोके प्रसिद्धः । यथास्त्रशक्तिषु याधेषु वर्त्तमानौ जयपराजयौ राज्ञि उपचर्येते शक्तिमदभेदात्तथा स्व शक्तौ प्रकृतौ वर्तमानं स्रष्ट्रवादिकं शक्तिमत्पुरुषे उपचर्यत इत्यर्थः ।

 नचै 'तस्मादात्मन आकाशः सम्भूत' इत्यादिभूतोत्पत्तिक्रमश्रु- तिविरोध इति वाच्यम् । तत्तेजोऽसृजत’इत्यादिसृष्टिश्रुतौ गगनवा- युसृष्टिपूरणवत्त्वदुक्तश्रुतावपि महदादेः सृष्टेः पूरणीयत्वात् । नच पर- श्रुत्यविरोधाय तत्र पूरणेऽपि दुर्बलस्मृतेर्बाध एवेति वाच्यम् । स "ईक्षा: ञ्चक्रे" ‘तदैक्षत बहु स्या'मित्यादिश्रुत्युपोद्वलितं‘महत्तत्वातिरिक्तं सर्वं कार्यं बुद्धिपूर्वक विचित्रकार्य्यत्वात्प्रासादादिव’ दित्यनुमानसहकृत-


 ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
 खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी'--
--


 ‘सप्राणमसृजत प्राणाच्छ्रद्धां खं वायु' मित्यादिप्राणादिसृष्टिपूर्व- कभूतसृष्टिश्रुतेरपि सत्त्वात् । सामान्यकरणवृत्तिमतौरभेदात् । ‘अ- न्तरा विज्ञानमनसी तल्लिङ्गा ’ दितिवेदान्तसूत्रमपि महदादिक्रमेण सृ- ष्टिं वदति । तथा हि । विज्ञानशब्देन भावकरणव्युत्पत्त्या बुद्धि- रिन्द्रियाणि चोच्यन्ते, तथाचान्तरा आत्माकाशयोमध्ये बुद्धीन्द्रियम- नांसि क्रमेण मुण्डकादिश्रुत्युक्तेन पूरणयानीति शेषः । तत्र हेतुमा- ई-‘तलिंङ्गात् उक्तक्रमेण सृष्टेः गमकवाक्यात् ।।

 यदि क्वचिदिति चेन्नाविशेषा'दित्यन्त सूत्रमुपलभ्यते तदान्त रा कस्मिंश्चिदन्तराले बुद्ध्यादीनि क्रमेणोत्पाद्यानि । उत्पादस्य क्र- मिकत्वाद्येन केनापि क्रमेणोत्पाद्यानि । तथाच तदुत्पादक्रमेण भू- तोत्पत्तिक्रमो विरुद्ध्येत । नच तेषामुत्पाद एवासिद्ध इत्साशङ्यम् । सर्वस्य प्रधानजातीयत्वाभ्युपगमात् ‘एतस्माज्जायते प्राण' इत्या दिलिङ्गा‘ञ्चेत्याह ‘तल्लिङ्गात् तेषामुत्पत्तिवाक्यादितिचेन्नाविशेषात् । यथाऽऽकाशवाय्वोरुपसंहारेण तेजसः प्राथम्यबाधेऽपि न विरो- धस्तथात्रापि । तथाचाथर्वणश्रुत्यनुग्रहाय भूतादौ बुद्द्यादीन्युपसं-