पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

नुमानद्वारा तात्पर्यविषयत्वं ज्ञापयति, अर्थवादोऽपि प्राशस्त्यज्ञापन- द्वारा तथैव ज्ञापकस्तथाप्यर्थवादबोध्यं प्राशस्यं बलवदनिष्ठाजनक- स्वरूपं, अभ्यासबोध्यं त्वर्थान्तरादुत्कृष्टत्वरूपमिति नाभ्यासार्थवा दयोरर्थैक्यं । अपूर्वत्वं प्रकृतवाक्यात्पूर्वमज्ञातत्वं, फत्वमुक्तधियः प्रयोजनवत्त्वं ॥ उपपत्तित्वं तद्धीविषयस्याबाधितत्वम् ॥

 एतस्य तु त्रयस्यार्थनिष्ठस्य प्रमात्वघटकतया तात्पर्यं प्रति व्यापकतया । यथा यज्ञोपवीतादिकं ब्राह्मण्यं प्रति । तत्राद्यमनुवा- दवाक्यस्य स्वार्थे प्रामाण्यवारणाय, द्वितीयं 'उत्ताना वै देवगवा’ इत्यादेस्तद्वारणाय । तृतीयं 'ग्रावाणः प्लुवन्ते' इयादेरित्येवं रूपम् ॥ तञ्च सर्वत्रोपनिषत्सु दृश्यते ।

 तथाहि ॥ "ईशावास्ये-ईशावास्यामिदं सर्वं" सबै मित्युपक्रम: ’सपर्यगाच्छुक्रमकायमव्र” मित्युपसंहारः ॥ "अनेजदेकं मनसो जवीय:" ‘तदन्तरस्य सर्वस्य तदु सर्वस्य वाह्य' । इत्यभ्यासः ।।"नैन- द्देवा आप्नुवन्पूर्वमर्श" दित्यपूर्वता ।। 'को मोहः कः शोक एकत्वम- मनुपश्यत' इति फलम् ।। ‘कुर्वन्नवेह कमणि जिजीविषे' दिति जि जीविषोर्मेददर्शनः कर्मकरणानुवादेन-


 असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
 तांस्ते प्रेत्याधिगच्छन्ति ये के चात्महनो जनाः ॥


इति निन्दात्मक-एकात्म्यदर्शनस्तुतिपरोऽर्थवादः ॥ तस्प्रिन्नपे मातरि श्वा दधाती' ति युक्तिरूपोपपत्तिरिति ।। तस्मिन्नियादेरयमर्थः-तस्मिन्न अनेजदेकमित्यात्युक्ते आत्मतत्वे सति मातरि अन्तरिक्षे श्वय- तीति वायुः क्रियात्मको हिरण्यगर्भः । अपः कर्माणिं ज्वलनद- हनप्रकाशाभिकर्षणचेष्टलक्षणानि । अपशब्दस्य वैदिकनिघण्टौ कर्म- नामसु पाठात् ॥ दधाति विभुजति धारयतीति वा । तथाच नित्य- त्मचैतन्ये एकस्मिन्सत्येव नियमेन ज्वलनादिक्रिया भवन्ति । क्रियासु एकेश्वरानधीनत्वे नियमो न स्यादित्यर्थः ।