पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त् । अत एव कुत्रचिदसमुचितानित्युक्तिः सङ्गच्छते । सन्किामा- नाप्तामृतः समभव’ दिति फलम् । ‘ता एता देवताः सृष्टा अस्मि न्महत्यर्णवे प्रयत' न्नित्यर्थवादः । या कर्मसमुञ्चयानुष्ठानफलभूता गतिः सापि न संसारदुःखोपशमायेति निन्दा ब्रह्मज्ञान स्तुतिपरा-: इत्यर्थः । ‘ता एतमब्रुवन्नायतनं नः प्रतिजानीहि यस्मिन्प्रतिष्ठित अन्नपदामे’ त्याचुपपत्तिः ।

 छान्दोग्योपनिषदि । ‘एकमेवाद्वितीयं ब्रह्मे’ त्युपक्रमः । ‘ऐतदा- म्यमिदं सर्वमि’ त्युपसंहारः। 'तत्त्वमसी'त्यादि नत्रधाऽभ्यासः । आ- चार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये इति फलम् । ‘उत तमादेशमाक्षो येनाश्रुतं श्रुतं भवत्यमतं मतम- विज्ञातं विज्ञात'मित्यादिर्थवादः। ‘सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येचे सत्य’- मिद्याद्युपपत्तिः ।

 बृहदारण्यकोपनिषदि । ‘आत्मेत्येवोपासीत तत्र ह्येते सर्वे एकं- भवन्ती' त्युपक्रमः । ‘पूर्णमद' इत्याद्युपसंहारः । ’स एष नेति नेत्या- मे’ त्याद्यभ्यासः । ते त्वौपनिषदं पुरुषं पृच्छामी'त्यपूर्वेता। 'अभयं वै जनक प्राप्तोऽसि । ब्रह्मैव सब्रह्माप्येती' त्यादिफलम् । तद्यो यो देवानां प्रत्यबुद्ध्यत स एव तदभव' दित्याद्यर्थवादः। स यथा दुंदुभेः’ इत्याद्युपपत्तिः।‘आत्मनि विज्ञात सर्वमिदं विज्ञात' मित्युपक्रमः ‘सर्व- मात्मैवाभू' दित्युपसंहारः । इदं सर्वं यदयमात्मे’ त्यभ्यासः । 'विज्ञाता- रमरे केन विजानीया' दित्यपूर्वता ‘एतावदरे खल्वमृतत्व' मिति फुलं ‘भूतेभ्यः समुत्थाय तान्येवानुविनश्यती’ त्यर्थवादः दुंदुभ्याद्यभिव्य क्तिशब्दत्वसामान्याद्वहिर्भूतशब्दत्वेन तद्विशेषाणामग्रहात्तत्रारोपि- तत्ववत्सदनुविद्धविशेषाणां तत्रारोपितत्त्वप्रतिपादकं ’स यथा दुदुभे’ रित्याशुपपत्तिरित्यादिकमपि वेदान्तकौमुदीकाराद्युक्तमनु- : सन्धेयम् ।