पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्यादिवत्तदुपपत्तेः । अतएव अनश्नन्नित्यादिना न तात्विकभेदा- भ्यासः । नापीशस्य शास्त्रगम्यतया तत्प्रतियोगिकस्तद्धर्मिको वा भेदोऽपूर्वः । ईशज्ञानमात्र तदपेक्षायामपि प्रत्यक्षेण तत्समकक्षमा- नेन च तयोः प्राप्तत्वात् । तदुक्तफलार्थवादयोरैक्यपक्षेऽपि सम्भवे- न न भेदासाधारणलिङ्गता । अनश्नन्नित्यादेः काल्पनिकभेदेनोप- पत्त्या तात्विकभेदोपपत्तित्वाभावात् । नचात्र विनिगमनाविरहः । ‘य उदरमन्तरं कुरुते तस्य भयं भवति । द्वितीयाद्वे भयं भव- ती'त्यादिना भेदनिन्दान्यथानुपपत्तेरेव विनिगमकत्वात् ।

 बृहदारण्येऽपि 'आत्मेत्येवोपासीते'तिसूत्रितविद्याविवरणरूपायां चतुरध्याय्यां ‘अनेन ह्येतत्सर्वं वेदेो’त्येकविज्ञानेन सर्वविज्ञानप्रति- ज्ञापूर्वकं ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभव'दित्यभेदेनोपक्रम्य पष्ठाध्यायान्ते मैत्रेयीब्राह्मणे निगमनरूपोपपन्नत्वस्य ‘सर्वमात्मैवाभूतत्केन ्कं पश्येदि’ त्यादिना अभेदेनैवोपसंहारात् ।

 अध्यायचतुष्टयस्याभेदपरत्वे स्थिते तदन्तर्गतस्य ब्रह्मलो- कान्तरसूत्रात्मप्रतिपादनपरस्य उत्तरब्राह्मणप्रतिपाद्यानिरुपाधिक- सर्वान्तरब्रह्मप्रतिपत्त्यनुकूलस्य महाप्रकरणविरोधेन तद्विरोधिभेद- परत्वाभावात् । तदुपन्यस्तलिङ्गानां भेदपरतानिर्णायकत्वे विकल्पि- तभेदपरतया तात्विकाभेदाविरोधित्वात् । अतएव न शारीरश्चोभ- येऽपि हि भेदेनैनमधीयत' इति सूत्रविरोधो, नवा तद्भाष्यव्याहतिः ।

 नचैवं मायान्वित्यादि किमर्थमिति वाच्यम् । विकारादिरहिता- द्वितीयब्रह्मणोऽद्वितीयत्वोपपादककतृत्वासम्भावना निरासेन सार्थ- कत्वात् । तन्निरासश्चाद्वितीयत्वाविरोधिब्रह्माध्यस्तत्वेन सहकारि- त्वादुपादानत्वाद्वा । नचाविद्याया बाधापरपर्यायाध्यस्तत्वे माना- भाव इति वाच्यम् । सदसदादिविकल्पग्राहसहकृत-‘नासदासीन्नो- सदासी'--'त्तमएवासीत्’-‘तरति शोकमात्मवित्'-'नेह नानास्ति-