पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 इति कर्काचार्यभाब्यस्थप्राचीनोक्तिरपि सङ्गच्छते इत्यन्ये ।

 याज्ञिकास्तु इदमिन्द्राय नममेति मानसी क्रिया एव वेदबो- धिता यजिपदार्थः । तत्रं च ।।


 आदौ द्रव्यपरित्यागः पश्चाद्धोम विधीयते ।
 प्रयोग इदमिन्द्राय नममेनि यथार्थतः ।
 अवत्तं तु त्यजेदन्नं मनसा वाचयापि च ॥
 ततश्च प्रक्षिपेदग्नाविति धर्मः सनातनः ।
 अत्यक्त्वा जुहुयांद्यस्तु मोहेनान्वितमानसः ।
 देवा हव्यं न गृह्णन्ति कथञ्च पितरस्तथा ।
 यत्किञ्चिज्जुहुयादग्नौ तत्सर्वं सागपूर्वकम् ।
 अन्यथा जुहुयाद्यस्तु नरकं सतु गच्छति ॥


 इति देवयाज्ञिकभाष्यस्थस्मृतिमनमित्याहुः ।


 यदि स्मृतिः प्रामाणिक तदापि तया होमस्य त्यागपूर्वकत्व- बोधनेऽपि योगस्य यागत्वाबोधनात् ।।

 वस्तुतस्तु “द्रव्यपरित्याग' इत्यादेः यत्किञ्चिदित्यादि- ना पुनरुक्तः । अत्यत्का जुहुयादित्यादः अध्वर्युकतृकहामसमा- ख्याविरोधाञ्च स्मृतिः काल्पनिकीत्येव प्रतिभातीति ।

 बहुषु यागेषु होमस्यापि सम्भवात् । यजतिजुहोतीनों को वि- शेष इति प्रश्ने'तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो- यजतयः । उपविष्टहोमा स्वाहाकारप्रदाना जुहोतय' इति कात्यायन सूत्रानुयायिनः । "नानुयाजेषु" ‘पर्यग्निकृतं पात्नीवतमुत्सृजन्ती’त्यादा- वव्यावृत्या तदपि न चारु । यागत्वहोमत्वादयो मानसप्रत्यक्षग- म्या जातिविशेषा एवेत्यपरे । तन्न तादृशजातौ मानाभावात् । पितरो देवतेत्यनेन पितृणां देवतात्वावगमे श्राद्धस्थ पित्रपेक्षया यागत्वेन ब्राह्मणापेक्षया दानत्वेन तत्र साङ्कर्य्याञ्च ।

 यत्तु द्रव्यदेवतासम्बन्धसमुदायो यज्यर्थः । तदुक्तं जैमिनि-