पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगणेशाय नमः ॥

साङ्ख्यतत्त्वकौमुदी

तन्वविभाकरसहिता

आराध्य यं भुवि कणादविधा बुधास्ते
शून्यादिवादतिमिरार्यमणो बभूवुः ।
सृष्टिस्थितिप्रलयहेतुमनन्तमाद्यम्
तं सर्वकर्मविनियोजकमीशमीडे ॥ १ ॥

त्रिगुणगुणवितानप्रोतजीवौघनाना-
मणिगणकृतहारा वारनारीव वेशान् ॥
रचयति पतितुष्टयै कोमला याऽस्य नेषद्
दृशमपि सहतेऽजां तां स्तुमो विश्वधात्रीम् ॥ २ ॥

नत्वा श्रीगणनायकं भगवतीं वाग्देवतां बुद्धिदाम्
धृत्वा श्रीगुरुपादपद्मममलं मौलौ समस्तार्थदम् ॥
ज्ञात्वा साङ्ख्यमतं विलोड्य च कृतिं वाचस्पतेस्तत्कृतेः
व्याख्यां युक्तियुतां करोमि बुधहृत्पद्मप्रबोधप्रदाम् ॥ ३ ॥

कौमुद्या हृतसर्वसंशयतमःस्तोमान्नृलोकाद्धि ये
त्रस्ता वादिहृदन्धकारगृहसंविष्टाः कुतर्कग्रहाः ॥
तानुन्मूलायितुं कृती विबुधराड् वंशीधरः सन्मतिः
कुर्वे तत्त्वविभाकरं गुणिहितं वाद्यास्यमुद्राप्रदम् ॥ ४ ॥

कौमुद्याऽपि न संजातो येषां तत्त्वविनिश्चयः ॥
कृतस्तज्ज्ञानसिद्ध्यर्थं सांख्यतत्वविभाकरः ॥ ५ ॥

क्वाहं मन्दमतिः क्वेयं व्याख्या वाचस्पतेः कृतेः ।
तथापि ब्रह्म दधतः किमसाध्यं भवेत्मम ॥ ६ ॥