पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

अजामेकां लोहितशुक्लकृष्णाम्

कपिलाय नमस्तस्मै येनाविद्योदधौ जगन्निमग्ने ॥
कारुण्यात्सांख्यमयी नौरिह विहिता प्रतरणाय ॥ ७ ॥

सांख्यसिद्धान्तं सूचयन्निष्प्रत्यूहसमाप्तये कृतं मङ्गलम् “अजामेकाम्" इत्यादिवेदमेव कियद्वर्णान्यथाकारेण प्रधानस्याशा- ब्दत्वनिरासाय शिष्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च ग्रन्थादौ निबध्नाति * अजामिति ॥ अजामित्यस्य नमाम इत्यनेनान्वयः । नमाम इत्यादौ बहुवचनं गुरुशिष्यसंप्रदायापेक्षया । क्वचित्कादम्बर्यादौ मङ्गलसत्वे समाप्त्यभावोऽङ्गवैकल्यात् । क्वच्चिन्नास्तिकादिग्रन्थे मङ्गलं विनाऽपि समास्तुि जन्मान्तरीयमङ्गलादिति न व्यभिचारः ।

मङ्गलस्य निष्प्रत्यूहसमाप्तिसाधनत्वे प्रमाणं तु अविगीतशिष्टाचारानुमितश्रुतिरेव ।

केचित्तु-सर्वदा श्रुतिर्नानुमेया, किन्तु प्रत्यक्षाऽप्यासीद्, इदानीं नोपलभ्यते म्लेच्छाधिपत्यदौर्भिक्ष्यप्रमादालस्या- दिनाऽध्ययनाभावादित्याहुः ।

यतु-मङ्गलस्य समाप्तिहेतुत्वेऽविगीतशिष्टाचारानुमितश्रुतिर्न प्रमाणम्, आनुपूर्वीविशेषनिर्णयाभावेनाबोधकत्वात् । किंतूक्तव्य- भिचारसंशयस्य ग्राह्यसंशयतयाऽनुमितावप्रतिबन्धकत्वेन व्यभिचा- रनिर्णयस्य चाभावादनुमानमेव च प्रमाणम् ।

तथा हि-मङ्गलं समाप्तिफलकं तदितराफलकत्वे सति सफल- त्वात्संमतवदिति । तन्न । मङ्गलं सफलं धर्मबुद्धया शिष्टैरनुष्ठीय- मानत्वादिति विशेष्यासिध्द्युद्धारेऽपि विशेषणसिद्ध्यनुद्धारात् । न च मङ्गलं समाप्तीतराफलकं तत्कामनां विनाऽपि शिद्वैः क्रि- यमाणत्वात्, समाप्तिकामनया क्रियमाणत्वाद्वेति वाच्यम् । स्वर्ग-