पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
अविवेकस्य साक्षाद्ब्न्धाहेतुना ।

कस्वप्रकृतिपुरुषोभयाविषयकबुद्धिवृत्तिरूपज्ञानवासनारूपस्याविवे- कस्यावश्यकत्वे बुद्धिभावापन्नेति विशेषणं व्यर्थमिति वाच्यम् । भवदुक्ताविवेकस्य मुख्यत्वेऽपि साक्षादवन्धकतया तदाकाङ्क्षित- द्वारलाभायोक्तविशेषणस्य सार्थकत्वात् ।

न च विवेकस्य संयोगहेतुत्वे मानाभाव इति वाच्यम् ।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसव्द्याक्तियोनिषु(१)॥ (गी०)

इत्यस्यप्रकृतिस्थः प्रकृतिसंयुक्तः प्रकृतिस्थताख्यसंयोगवानित्यर्थः ।
अस्य-विशेषणीभूतसंयोगस्य, गुणसङ्गो गुणाभिमानोऽविवेकाख्यः
कारणं निमित्तम् इत्यर्थकभगवद्वचनस्य मानत्वात् ।

नचाविवेकस्यसाक्षादेव हेतुत्वमस्तु किमन्तर्गडुना संयोगेनेति? । “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः” इत्यादिश्रुतिविरोधापत्तेः । आत्मन्द्रियेत्यत्रात्मपदं शरीरपरं प्रकरणात् । आत्मानमिति द्वितीयान्तं पद्मात्मेन्द्रियमनोयुक्तमितिद्वितीयान्तपदविशेष्यत्वेन प्रकरणसामर्थ्याद्योग्यतयाऽनुषज्यते । एवं चात्मेन्द्रियमनो- युक्तमितिपदमात्मानमित्यस्य द्वितीयान्तं पुंल्लिङ्गं विशेषणम् । तथाच मनीषिणः शरीरेन्द्रियमनोभिर्युक्तं विशिष्टमात्मानं भोक्तेत्या- हुरित्यन्वयः । एतदभिप्रायेणैव “आत्मेन्द्रिमनोयुक्तं शरीरेन्द्रियम- नोभिस्सहितं युक्तमात्मानं भोक्ता संसारी इत्याहुः" इति कठभाष्ये भगवच्छङ्कराचार्य्यैरुक्तम् । आत्मा भोक्तेत्युक्ते भोक्तृत्वं स्वाभाविकमित्येव भ्रमः स्यात्तद्वारणायात्मेन्द्रियमनोयुक्तमित्युपात्तम् ।

केचित्तु–“आत्मानं रथिनम्इ" इत्यत्रेोपात्तमात्मस्वरूपं परिशो- धयितुं दर्शयति आत्मेति । मनीषिणः इन्द्रियमनोयुक्तं यथा स्यात्तथा भोक्ता आत्मा भवतीत्याहुारित्यन्वयः ।

यद्वा-आत्मानमित्यत्रापात्तस्यात्मनः पारशाधनाय काश्चिद्गु


(१) गीतायां सद्सद्योनिजन्मसु इति पाठः ।