पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
अविवेकस्य बन्धजनने गौतमोक्तद्धारजातविषयकवि०

पवर्ग:'इति (न्या० सू० अ० १ आ० १ सू० २) सूत्रं तु तेषु जन्मा- दिषु मध्ये उत्तरोत्तराणामपाये तदनन्तराभावादव्यवहितपूर्वाभावात् अपवर्गः आत्यन्ति की दुःखनिवृत्तिः । तथाच न्यायसूत्रम्‘बाधनालक्षणं दुःखं तदत्यन्तविमोक्षोऽपवर्गः'इति । (न्या०सू० अ० १ आ० १ आ सू० २१-२२) दुःखानि-शरीरम्, षडूइन्द्रियाणि, षडू विषयाः, षड् बुद्धयः, सुखम्, दुःखं चेत्येकविंशतिः । तत्र दुःखत्वजातिशून्ये शरीरादौ दुःखसाधनतया गौणं दुःखत्वम् । स्वर्गादि सुखस्यापि तन्नाशज्ञानेन दुःखसाधनत्वमव्यावृत्तमेव । न चैक- विंशतिदुःखान्तर्गतयोर्मनःश्रवणयोर्नित्यत्वात्कथंनाश इति वाच्यम्। तद्रूपविशिष्टस्य श्रवणस्य ज्ञानद्वारा दुःखहेतुतया दुःखत्वम् । तदूपस्य कर्णशष्कुल्या नाशेन विशिष्टश्रवणेन्द्रियरूपदुःखनाशात् । एवमात्मसंयोगरूपव्यापारविशिष्टस्यैव मनसो ज्ञानद्वारा दुःखरूपतया व्यापारनाशेन तद्विशिष्टमनोरूपदुःखनाशसम्भवादिति । दुःखनिवृत्तावात्यन्तिकत्वं च स्वसमानाधिकरणदुःखासमानकालीनत्वमिति परिष्कुर्वन्ति न्यायाचार्या उद्द्योतकरादयः ।

अत्र विचारयामः-षडिन्द्रियाणि षड्विषया इति यत्, तन्न । घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः गन्धरसरूपस्पर्श शब्दाः पृथिव्यादिगुणास्तदर्थाः स्थानान्यत्वे नानात्वादवयविना नास्थानत्वाञ्च संशयः । ‘गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्या' इत्यादिविभागपरीक्षासूत्रविरोधात् । न च ‘परमतमप्रति- षिद्धमनुमतं भवति'इति न्यायान्नाद्यदोष इति वाच्यम् । परीक्षाविरोधेनाप्रतिषिद्धत्वाभावात् । परीक्षावैयथ्र्यापत्तेश्च । जायादीनां विषयत्ववारणायानितरेतरसाधनसाध्यत्वमेकैकेन्द्रियग्राह्यत्वापरर्यायं विषयत्वं वक्तव्यम्, षण्णां बुद्धीनां सुखदुःखयोश्व मनोरूपैकेन्द्रिय- ग्राह्यत्वाद्विषयपदेनैव लाभे तेषां पृथग्ग्रहणं व्यर्थम् । जायादेरपि सुखादिवत् दुःखसाधनत्वात् विषयप-