पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
सटीकस्साङ्ख्यत्तत्वकौमुद्याम् ।

कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये ॥
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥२॥

र्थः | भ्जन्ते इत्यत्र रागो धात्वर्यः|तथाच तद्विषयकरागाश्रया इत्यन्वयबोधः | एवं च तरुण्याद्याकारपरिणतप्रकृतिसौन्दर्यदर्शना- दिनओद्बुद्धो यः ‘इर्य मादिष्टा'इत्यादिज्ञानविशेषरूपोऽनाद्यविवेक एव रिरंसादिरूपरागद्वारा पुरुषं प्रवर्त्तयतीत्यर्थः ॥ १ ॥

नन्वीश्वरकृष्णप्रणीता आर्या मुमुक्षुभिरनुपादेया असर्वज्ञपुरुषप्रणीतत्वात् । न च हेत्वसिद्धिः । पुराणादिषु विद्यासम्मदायप्रवर्तकमध्येऽगणनादित्याशङ्कां दूरीकुर्वन्-

यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १ ॥

इति सुबालोपनिषद्धोधितेतिकर्त्तव्यताकं गुरुवर्गनमस्कारात्मकं कृतं मङ्गलं शिष्यशिक्षायै स्वस्य शास्त्रानवबोधशङ्कानिरासाय च निबध्नाति-कपिलायेत्यादिना । प्रतारणादिदोषाभाव- विशिष्टातीन्द्रियार्थावबोधसूचनाय महामुनय इति विशेषणम् । तस्य तादृशकपिलस्य । अत्र । शिष्यपदेन विद्यालाभस्सूचितः । मुनिपदेन विपरीतभानादिनिरासः । पञ्चशिखायेत्यादौ मुन्यादि पदद्वयमनुवर्त्तनीयम् । इत्थं च परम्पराप्राप्तकपिलमहर्ष्युक्त्तार्था- नुवादकत्वेनानुपादेयत्वशङ्का निराकृतेति । एते वयमित्यर्थः ॥ २ ॥

ननु “तमेव विदित्वाऽति मृत्युमेति" “तरति शोकमात्मवित्" "न कर्मणा न प्रजया धनेन त्यागेनैक अमृतत्वमानशुः" ।

यदा चर्मवदाकाशं चेष्टयिष्यन्ति मानवाः ।
तदात्मानमविज्ञाय दुःखस्यान्तो भविष्यति ॥ १ ।।

“न स पुनरावर्त्तते" इत्यादिश्रुत्या आत्मयाथार्थ्यज्ञानस्य मोक्षहेतुत्वमवगतम्, तत्र प्रमाणाकाङ्क्षायाम्--“अशब्दमस्पर्शमरूप- मव्ययं तथाऽरसं नित्यमगन्धवञ्च यत्’ “स पर्य्यगाच्छुक्रमकाय-