पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

इह खलु प्रतिपित्सितमर्थं प्रतिपाद्यन् प्रतिपाद्मव्रणमस्राविर XX शुद्धमपापविद्धम्” “औपनिषदं पुरुषं पृच्छामि" इत्यादिश्रुत्योक्तात्मतत्त्वसाक्षात्कारे आगमरूपशब्द एव मानम्, नतु बाह्यमान्तरं वा प्रत्यक्षम्, तयोरुक्तात्मतत्त्वावधारणेऽसामथ्र्यात्, विपरीतग्राहकत्वाच ।

कपिलमुनिप्रणीतोपपत्तिरूपषडाध्यार्यमूलकेश्वरकृष्णप्रणीतो- पपत्तिरूपार्यार्थे प्रेक्षावत्प्रवृत्यङ्गजिज्ञासा न सम्भवतीति चेत्, मैवम् । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिश्रुतिष्वात्मसाक्षात्कारहेतुतया श्रवणादित्रयं विहितं । तत्रश्रवणादावुपायाकाङ्क्षायां स्मर्यते--

श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः ॥
मत्वा च सततं ध्येय एते दर्शनहेतवः ।। इति ।

ध्येयः,योगशास्त्रप्रकारेणेति शेषः। श्रुतेषु पुरुषार्थतद्धेतुझानत- द्विषयात्मस्वरूपादिषु “न तर्केण मातिरापनेया'इत्याद्येकवाक्यतया श्रुत्यविरोध्युपपत्तेराकाङ्क्षितत्वादित्याह-इहेत्यादिना । इह शात्रे । खलु निश्चयेन ।

न च न्यायवैशेषिकाभ्यामप्येतेष्वर्थेषु न्यायस्य प्रदर्शितत्वा- ताभ्यामागमस्य गतार्थत्वमिति वाच्यम् । “तीर्णो हि तदा भवति हृदयस्य शोकान्’ “कामः सङ्कल्पो विचिकित्सा श्रद्धा ऽश्रद्धा धृतिरधृतिर्ह्रिर्धीर्भीरित्येतत्सर्वं मन एव" “स समानः सन्नुभौ लोकावनुसञ्चरति" "ध्यायतीव लेलायतीव" . “स यदत्र किञ्चित्प- श्यत्यनन्वागतस्तेन भवति" “प्रज्ञानघन एवायमात्मा"

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ १ ॥

इत्यादिश्रुतिस्मृतिभिर्न्र्यायवैशेषिकोक्तस्य सुखी दुःखीत्याद्यात्म- स्वरूपप्रतिपादकन्यायस्य बाधितत्वात् । आत्मनि सुखादिभावस्य