पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

लोकसिद्धत्वेन “यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुभर्वेति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते' इत्यादिश्रुतेस्तत्र तात्पर्याभावात् । न च साङ्ख्यस्यापि ‘नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः ( सां सू० अo ५ सू० २ )इत्यादिपञ्चमाध्यायस्थसूत्रैरीश्वरप्रतिषेधं कुर्वतो “यः सर्वज्ञः सर्ववित्” “एष सर्वेश्वरः"इत्यादि श्रुतिविरोध इति वाच्यम् । ईश्वराभावस्य लोकसिद्धत्वन तत्र तात्पर्याभावात् । ‘असत्यमपतिष्ठं ते जगदाहुरनीश्वरम्'इति भगवतेश्वराभावानुवादस्य स्पष्टीकरणाच्च । न चानुवादे फलाभावः । वैराग्यादेः फलत्वात् । यदि हि लोकायतिकवनियैश्वर्य न प्रतिषिद्ध्येत्तदा नित्यैश्वर्यदर्शनेन तत्र चित्तमावेशयतो विवेकाभ्या- सप्रतिबन्धः स्यात् । नचैवम्

यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् ॥
अनादिनिधनं ब्रह्म तमेव शरणं व्रजेत् ।। १ ।।

इत्यादिकूम्र्मे नारायणादीनां सांख्यानामीश्वराज्ञानोक्तिर्वेिरुद्ध्येतेति व्वच्यम् । एतस्योक्त्तभगवद्वाक्यैकवाक्यतया तत्र तात्पर्याभावात् । अन्यथा योगीन्द्राणां तदज्ञानासम्भवेनोक्तवाक्यस्याप्रमाण्यापत्तेः । अत एव-

अक्षपादप्रणीते च काणादे सांख्ययोगयोः ।
त्याज्यः श्रुतिविरुद्धांशः श्रुत्यैकशरणैनृभिः ॥ १ ॥
जैमिनीये च वैयासे विरुद्धांशो न कश्चन ।
श्रुत्या वेदार्थविज्ञाने श्रुतिपारङ्गतौ हि तौ ॥ २ ॥ ।
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यद्युक्त्तं तदुपास्यताम् ।। ३ ।।

इतिपराशारीयमोक्षधर्मवाक्याभ्यां विरोध इति परास्तम् । अनयोरप्युक्तभगवद्वाक्यैकवाक्पतया तत्र तात्पर्याभावादिति ।

अत्र साङ्ख्यपदं च योगरूढम्, सम्यक् ख्यायतेऽनेनेति व्यु-