पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्तम्, मानसं कामक्रोधलोभमोहभयेर्ष्यविषादविषय- विशेषादर्शननिबन्धनम् । सर्वञ्चैतदान्तरिकोपायसाध्य- त्वाद्ध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दु:ग्वं द्वेधा- आधिभौतिकम्, आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरानिमित्तम्, आधिदैविकं तु यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् ।

तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न ।


न । मनोमात्रजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वव्यवहारात् ।

अत्रेदं बोध्यम्-दुःखं द्विविधम्-आन्तरं बाह्यं च । आद्यं द्विविधं शारीरं मानसं च । अन्त्यमपि द्विविधम्-आधिभौतिकमाधिदैविकं चेत्येवं विभागसम्भवे त्रैविध्यकथनमसङ्गतम् । अत एव बाह्योपायसाध्यं च दुःखं द्विधेति उभयसाधारणधर्मोपपादकाग्रिमतद्ग्रन्थोऽपि सङ्गच्छते। अन्यथा तदुपपादनस्य निष्प्रयोजनत्वापत्तेः । वातपित्तेतेि । वातपित्तादीनां शरीरस्थूणात्मकत्वान्न तज्जन्यस्य दुःखस्य शरीर- निमित्तकत्वानुपपत्तिः । एवमग्रेऽपि बोध्यम्। कामादयस्तु पूर्वं व्याख्याताः । यक्षराक्षसेति । पृथिव्यादिकमप्युपलक्षणीयमित्युक्तं प्राक् । अन्यथा पाषाणादिपतनदाहशीतादिजन्यस्यासङ्ग्रहापत्तेः । दुःखत्वे अनुभव एव मानमित्याह--तदेतदिति । ‘आत्मानमात्मानं प्रति'इति वीप्सायामव्ययीभावसमासे प्रत्यात्मम्, तेन वेदनीयं साक्षात्कृतमित्यर्थः । तस्य कारणमाह-रजःपरिणा मेति । परिमाणभेदः कार्यविशेषः । परिणामग्रहणं तु विवर्तारम्भकार्य- वारणाय । स्वकारणाभिन्नसमसत्ताकत्वं परिणामत्वम् । कारणाििभन्नन्यूनसत्ताकत्वं विवर्तकार्यत्वम् । स्वभिन्नत्वे सतेि समवेतत्वमारम्भकार्यत्वम् । विशेषपदं च लोभादिव्यावर्त्तनाय ।

ननु मोक्षो नाम बन्धनिवृत्तिः, सं च बन्धः स्वाभाविक उत आगन्तुक इति । आद्ये नाशायोगः । नह्यग्नेः स्वाभाविकादौष्ण्या-