पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
शास्त्रविषयजिज्ञासाऽवतरणिका ।

उपायस्तद् उच्छेतुम् । तथाऽप्यत्रप्रेक्षावत जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेद्कस्य सुकरस्य विद्यमानत्वात्, तत्त्वज्ञानस्य तु अनेकजमन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् ।


शास्त्र गम्यस्तदुच्छेदोपाय इति विहाथ वक्रोक्तिस्तु शास्रोपायस्य वक्ष्यमाणतया त्दुच्छेदे सामर्थ्यानिर्णयमूचनाय । विद्यमानत्वादिति । अनेन जिज्ञासाप्रयोजकेष्टसाधनताज्ञानं सूचितम् । अनेकजन्मेति । अनेन शास्त्रविषयजिज्ञासाप्रतिबन्धकं द्विष्टासाधनताज्ञानं सूचितम् ।

नन्वध्ययनभावनानिर्णीतार्थपुरुषेणोक्ते मोक्षोपयोगिपदार्थे कतिपयदिनादिभिरेव शिष्याणां बोधोद्याल्लोके बहुषु तथाथॉपलब्धेः कथमनेकजन्मसाध्यत्वोक्तिः । मुख्योपायस्तु लौकिको धनं विवेकश्च । सच महाकालायाससाध्यः । उपसर्जनोपाया अपि शारीरकदुःखानिष्टत्तये भिषजां वरैरुक्तास्तेऽपि दुर्लभास्तेषां भिषजां सर्वत्र सर्वदाऽवस्थानासम्भवात् । नच येन केन चिन्निर्वाहः । अभ्यासप्रतिभादितारतम्येनैकेन निर्वाहासम्भवात् । सर्वत्र सर्वदैकस्याप्यभावात् । मानसस्यापि मनोज्ञस्त्र्पादेर्महायाससाध्यत्वाद्भ- रणमरणादित्राअसजनकत्वाञ्च। एवमाधिभौतिकस्याप्युपायस्य नीतिशास्त्राभ्यासकुशलताया अत्या- याससाध्यत्वात् । तद्वन्निरत्ययस्थानाध्यासनादयः । एवमाधिदैविकस्य मणिमन्त्राद्युपायस्य दुःसाध्यत्वात्पुनारक्षणानुष्ठानाद्यपेक्षत्वाञ्च । विवेकस्थलेऽनुष्ठेयाभावादेतदपेक्षया विवेकस्यातिसुलभत्वाञ्च । एवं विषयस्य सुकरत्वकथनासङ्गतिर्दुर्वारा इति चेत्, न । अभिप्रायानवबोधात् ।

तथाहि-आत्मा बुद्धिप्रतिबिम्बितः स्वस्मिन् प्रतिबिम्बितं बुद्धिगतं दुःखं प्रकाशयति नतु बिम्बरूपेण कर्मकर्तृविरोधात् । सुखदुःखादि-