पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
शास्त्रविषयजिज्ञासाऽवतरणिका ।

देर्दूःखस्य निवृत्तेरद्दर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पुनरुत्पत्तिद्दर्शनाद् अनात्यन्तिकत्वम्, इति सुक-


र्दर्शनेऽपि नियमासिद्धया नियमवटितसाधनत्वासिद्धिरित्यर्थः । एतेन तस्येति लेखकप्रमाद इति परास्तम् । यस्य कस्य चिद् दुःखस्य लाभसूचनेन सार्थकत्वात् । निवृत्तस्येति । पूर्वव्द्याख्येयम् । नचैकान्तिकत्वविशेषणं व्यर्थं प्रकृतेऽनुपयोगादनैकान्तिकत्वसाधने धनार्जनादो जिज्ञासादिदर्शनाच्चेति वाच्यम् । सुकरोपाये जिज्ञासा दिसम्भवेऽपि महायाससाध्ये तादृशोपाये जिज्ञासाद्यसम्भवात् ।

हेतुद्वयबोधकामिदमित्यपरे ।

यत्तु बुद्धेः पुनरुत्पादापत्तिस्तन्न । जहतेति व्याख्यावसरे दत्तोत्तरत्वात् ।

यद्यपि यत्किञ्चिद्बुद्ध्यदेर्निरन्वयनाशोऽपि विद्यमानबुद्धयादि- परिणामानां व्यापके पुरुषे प्रतिबिम्बो निरोद्धुमशक्यस्तथाऽप्युक्त- स्वस्वबुद्धिभावापन्नेत्यादिविशेषणाभावेन शिष्टाभावसंभवात् ।

दुःखनिवृत्तेरैकान्तिकत्वं च नियमेन स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वम् । नियमस्तु यत्र यत्क्षणावच्छेदेन यद्धर्मावच्छिन्नसामग्री तत्र तदुत्तरक्षणे तद्धर्मावच्छिन्नोत्पत्तिरिति व्याप्तिः । दुःखनिवृत्तेरात्यन्तिकत्वं च स्वसमाना- धिकरणदुःखासमानकालीनत्वम् । स्वमोक्षदशायां स्वसमाना- धिकरणदुःखाभावेन दुःखध्वंसस्य तदसमानकालीनत्वाल्लक्षणसमन्वयः । संसारिणां दुःखसत्त्वेनेदानीन्तनदुःखध्वंसे तदसमानकालीनत्वाभावान्नातिव्याप्तिः । दु:खासमानकालीन- त्वमात्रस्य दुःखध्वंसविशेषणत्वे चरममोक्षे लक्षणसमन्वयेऽपी दानीन्तने शुकवामदेवादिमोक्षे स्वव्यधिकरणास्मदादिदुःखसमानकालीनतया लक्षणसमन्वयो न भवतीत्यतः स्वसमानाधि-