पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्तया समूलघातमपहन्ति दुःखम् । न चैष क्षयी । तथा हि श्रूयते--"अपाम सोमममृता अभूम" इति ( अथर्वशिरस ३) । तत्क्षये कुतोऽस्यामृतत्वसम्भवः १॥


नुमानमित्यर्थः । सच-उक्तसुखरूपविशेषरूपः स्वर्गः । ननु तत्तेद्देशावच्छिन्नसुखस्य तत्तद्देशावच्छिन्नदुःखविरोधित्वादन्यदशा वच्छेदेन दुखोत्पत्तौ बाधकाभाव इत्याशन्ग्क्यार्थवादाविरोधाय स्वरूपेणैव विरोधित्वान्मैवमित्याह स्वसत्तयेति । ननु सुखना- शाधिकरणतृतीयक्षणवर्तिना पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण चतुर्थक्षण दुःखात्पादसभक इत्याशङ्क्या समूलघतमिति । तथा च कर्मकलापान्तर्गतप्रायश्चित्तेन तस्य नाशादिति भावः । समूलघातमितिक्रियाविशेषणम् । नच प्रायश्चित्तेन तन्नाशे सुखेन तन्नाशाभिधानमसंगतमिति वाच्यम् । सुखपदस्य प्रायश्चित्तसहकृतस्वजनकसामग्रीपरत्वात् । ननु “यत् कृतकं तद् आनित्यम्" इतिसामान्यतोदृष्टानुमानानुगृहीतया “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्याचेतो लोकः क्षीयते' इत्यादिश्रुत्या स्वर्गस्याप्यनित्यत्वावगमान्न तेन जिज्ञासावैयर्थ्यमित्याशङ्क्याह नचैष क्षयीति । तथाच “अपाम सोप्रममृता अभूम” “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादिश्रुत्यविरोधाय प्रवाहानादित्वरूपं नित्यत्वमभ्युपेयते इति भावः । तदेवोपपादयति-- तथा हीति । क्वद्देवानां जल्प आसीत् ‘कथं वयमत्रागताः' इतिाविचार्योचुः -

“अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ॥
किं नूनमस्मान् कृणवदरातिः किमुधूर्तिरमृतमर्त्यस्य ॥ इति ।

तदेवाह अपामेत्यादिः । हेतुभूतातीतसोमकर्मकपानानुकूलकृतिवन्तो वयं तत्कालीनतत्काय्येभूतामृतत्वभवनाश्रया इत्यर्थः । तत्क्षये- सोमपानादिप्रयोज्यस्वर्गक्षये । अस्य-सोमपा-