पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५०
सिद्धान्तकौमुद्याम्

वाक्पति” । चित्पति” । दिधिष्ट्रपति ॥ ३७५४ । वा भुवनम् (६-२ २०) । उक्तविषये । भुवनपति ” । ‘भूसूधूभ्रस्जिभ्य –' (उणा०) इति क्युन्नन्तो भुवनशब्द ॥ ३७५५ । आशङ्का बाधनेदीयस्सु सभावने (६ २-२१) । अस्तित्वाध्यवसायः सभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीय । गमनमाशङ्कयत आबाध्यते निकटतरामिति वा सभाव्यते । सभावने' किम् । परमनेदीय ॥ ३७५६ । पूर्वे भूतपूर्वे (३-२-२२) । आढ्यो भूतपूर्वे आदव्यपूव । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । “भूतपूर्वे ? किम् । परमपूर्व. ॥ ३७५७ । सविधसनीडसमर्यादसवेश देशेषु सामीप्ये (६ २-२३) । एषु पूर्व प्रकृया । मद्रसाविधम् । गान्धारसनीडम् । काश्मीरसमयदम् मद्रसवेशम् । मद्रसदशम् । 'सामीप्ये' नि म् । सह मर्यादया समर्याद क्षेत्रम् । चैत्रसमयदम् ॥ ३७५८ । विस्पष्टादीनि गुणवचनेषु (६-२-२४) विस्पष्टकटुकम् । विस्पष्टशब्दो 'गतिरनन्तर' (सू ३७८३) इत्याद्युदात्त । विस्पष्ट-' इति किम् । परमलवणम् । 'गुण-' इति किम् । विस्पष्टब्राह्मण. । विस्पष्ट । विचित्र । व्यक्त । सपन्न । पण्डित । कुशल । चपल । निपुण ।। ३७५९ । श्रज्यावमकन्पापवत्सु भावे कर्मधारये । (६-२-२५) । 'श्र' “ज्य' । “ अवम' ‘कन्' इत्यादेशवति पापवाचिनि चोत्तर पदे भाववाचि पूर्वपद प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्टम् । 'श्र-' इत्यादि' किम् । गमनशोभनम् । “भावे' किम् । गम्यतेऽनेनेति गमनम्, गमन श्रेयो गमनश्रेय' । ‘कर्म-' इति किम् । षष्ठीसमासे मा भूत् ॥ ३७६० । कुमारश्च (६-२-२६) । कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्त. ॥ ३७६१ । आदि प्रत्येनसि । (६-२-२७) । कुमारस्यादिरुदात्त प्रत्येनसि परे कर्मधारये । प्रतिगतमेना ऽस्य प्रत्यना । कुमारप्रल्यना' ।। ३७६२ । पूगष्वन्यतरस्याम् (६-२-२८) । पूगा गणास्त घूक्त वा । कुमारचातका’ । कुमारजीमूता । आद्युदात्तत्वाभावे 'कुमारश्च' (सू ३७६०) इलेयव भवति ॥ ३७६३ । इगन्तकालकपालभगालशरावेषु द्विगौ (६-२-२९) । एषु परेपु पूर्व प्रकृत्या । पञ्चारत्रय प्रमाणमस्य पञ्चारनि । दश मासान्भूतो दशमास्य । पञ्च मासान्भूत । पञ्चमाख्य' । “तमधीष्टो-' (वा १७४४) इत्यधिकारे 'द्विगोर्यप्, (वा १७४६) । पञ्चकपाल । पञ्चभगाल । पञ्चशराव' । “त्र सख्याया ' (फि० २८) इति पञ्चञ्छब्दः, आद्युदात्त । इगन्तादिषु' किम् । पञ्चाश्वः । 'द्विगौ' किम् । परमारान्निः ॥ । बह्वन्यतरस्याम् ३७६४ (६-२ ३०) । बहुशब्दस्तथा वा । वह्वरन्नि । बहुमास्य. । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सात 'उदात्तस्वांरेतया –’ । (सू ३६५७) । इति भवति ॥ ३७६५ । दिष्टिवित स्त्येश्च (६-२-३१) । एतयो परत पूर्वपद प्रकृत्या वा द्विगौ । पञ्चदिष्टि । पञ्चवितस्तिः । ३७६६ । सप्तमी सिद्धशुष्कपकबन्धेष्वकालात् (६ २-३२) । अकालवाचि सप्तम्यन्त प्रकृत्या सिद्धादिषु । साकाश्यसिद्ध. । साकाश्येति ण्यान्तः । आतपशुष्क । भ्राष्ट्रपक' । भ्राष्ट्रति ष्ट्रन्नन्तः । चक्रबन्धः । चकशब्दोऽन्तोदात्त. । “ अकालात्' किम् । पूर्वाहसिद्ध’ । कृत्स्वरण बाधत सप्तमीस्वरः प्रतिप्रसूयते । ३७६७ । परिप्रत्युपापा वज्र्यमानाहोरात्रावयवेषु (६-२-३३) । एते प्रकृत्या वज्र्यमानवाचिनि चोत्तरपदे । परित्रिगर्त वृष्टो देव. । प्रतिपूर्वाह्नम् । प्रत्यपर रात्रम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । वहुव्रीहितत्पुरुषयोः सिद्धत्वा