पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५१
स्वरप्रकरणम् ।

दव्ययीभावार्थमिदम् । अपर्योरेव वज्र्यमानमुत्तरपदम् । तयोरेव वज्र्यमानार्थत्वात् । अहो रात्रावयवा अपि वज्र्यमाना एव तयोर्भवन्ति । “ वज्र्य-' इति किम् । अन् िप्रात प्रत्याम । ३७६८ । राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिपु (६-२-३४) । राजन्यवाचिना बहुवचनानामन्धक वृष्णिषु वर्तमाने द्वन्द्वे पूर्वपद प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवा. । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । 'राजन्य-' इति किम् । द्वैप्यभमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्य युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्या । राजन्यग्रहणमिहाभिषिक्तवश्याना क्षत्रियाणा ग्रहणार्थम् । नैते तथा । “बडुवचनम्' किम् । सङ्कर्षणवासुदेवौ । 'द्वन्द्वे' किम् । वृष्णीना कुमारा वृष्णिकुमारा । “ अन्धकवृष्णिषु' किम् । कुरुपञ्चाला ॥ ३७६९ ॥ सङ्खया (६-२-३५) । सख्यावाचि पूर्वपद प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्रयसादेश आद्युदात्ती निपात्यते ॥ ३७७० । आचार्योपसर्जनश्चान्तेवासी (६-२-३६) । आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहण द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते । तेनेह न । पाणिनीयदेवदत्तौ । आचार्य-' इति किम् । छान्दसवैयाकरणाः । ‘अन्तेवासी' िकम्। आपिशलपाणिनीयेति शात्रे । ३७७१ । कार्तकौजपादयश्च (६-२-३७) । एषा द्वन्द्वे पूर्वपद प्रकृत्या । कार्तकौजपौ । कृतस्येद कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमाण्डूकेयौ । ३७७२ । महान्त्रीह्यपराह्मगृष्टीष्वासजाबाल भारभारतहैलिहिलरौरवप्रवृद्धेषु (६-२-३८)। महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु। महात्रीहिः। महापराह्नः । महागृष्टि । महेष्वास. । महाहेलिहिल: । महच्छब्दोऽन्तोदात्त. । ‘सन्महत् (सू ७४०) इति प्रतिपदोक्तसमास एवाय स्वर । नेह । महतो व्रीहिः महद्वीहि ॥ ३७७३ । क्षुछकश्च वैश्वदेवे (६-२-३९) । चान्महान् । क्षुछकवैश्वदेवम् । महावैश्वदेवम् । क्षुध लातीति श्रुमुलः । तस्मादज्ञातादिषु कऽन्तादात ॥ ३७७४ । उष्ट्रः सादिवाम्यो (६-२-४०) । उष्ट्र सादी । उष्ट्रवामी । उषे ट्रनि उष्ट्रशब्द आद्युदात्त. ॥ ३७७५ । गौ. सादसादिसारथिषु (६-२-४१) । गोसाद . । गोसादिः । गोसारथि ॥ ३७७६ । कुरुगार्हपतरिक्तगुर्वेसूतजर त्यश्लीलदृढरूपापारेवडवातैतिलकदूपण्यकम्बलो दासीभाराणा च (६-२-४२) । एषा सप्तानां समासाना दासीभारादेश्च पूर्वपद प्रकृत्या । कुरूणा गार्हपत कुरुगार्हपतम् । उप्रत्ययान्त. कुरुः । वृजेरिति वाच्यम्’ (वा ३८११) । वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरु रिक्तगुरुः । रिक्त विभाषा' (सू ३६९६) इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वालच् । कपिलकादित्वाछत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्तयलोपश्च । पारशब्दो घृतादित्वादन्तोदात्त . । तैतिलाना कदू. तैतिलकद्रः । तितिलिनोऽपत्य छात्तूो वेत्यण्णन्तः । प्रण्यशब्दो यदन्तत्वादायुदात्त । 'पण्यकम्बलः। सज्ञाया मिति वक्तव्यम्’ (वा ३८२०) । अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । प्रतिपदोत्ते समासे “कृत्या.’ (सू २८३१) इलेयेष स्वरो विहितः । दास्या भारो दासीभारः । देवहूति. । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचन विहित स सर्वोऽपि दासी भारादिषु द्रष्टव्यः । “स राये सपुरन्ध्रयाम्' । पुर शरीरं ध्रियतेऽस्यामिति “कर्मण्यधिकरणे च'