६४३ । उदके थुट् च । पाथः ।
६४४ । अन्ने च । पाथो भक्तम् ।
६४५ । अदेर्नुम्धौ च । अदेर्भते वाच्येऽसुन्नुमागमो धादेशश्च । अन्धो
६४६ । स्कन्दश्च स्वाङ्ग । स्कन्धः-स्कन्धसी ।
६४७ । आपः कर्माख्यायाम् । कर्माख्यायां ह्रस्वो नुट् च वा । अप्रः ।
६४८ । रूपे जुट् च । अब्जो रूपम् ।
६४९ । उदके नुम्भा च । अम्भ ।
६५० । नहेर्दिवि भश्च । नभः ।
६५१ । इण आगोऽपराधे च । 'आगः पापापराधयोः' ।
६५२ । अमेहुक्च । अंह ।
६५३ । रमेश्च । रंहः ।
६५४ । देशे ह च । रमन्तेऽस्मिन्रहः।
पृथुना । पृथुपाजा अमत्र्य.' इत्यादिमन्त्रतद्राष्यविरोधात् । अदेः ॥ 'भिस्सा स्त्री भक्तमन्धे ऽन्नम्' इत्यमरः । 'द्विजातिशेषेण यदेतदन्धसा' इति भारवि । 'समन्धसा समदः पृष्ठवेन ' इति श्रुतिः । स्कन्देश्च ॥ असुन् धश्चान्तादेशः । आपः कर्माख्यायाम् ॥ असुन् । हस्वश्च धातो. । प्रत्ययस्य नुडागमस्तु वा । “अप्रस्वतीमश्विना । अपासि यस्मिन्नधिसन्दधु ।’ बाहुलकादित्युपलक्षणम् । हस्वनुटौ वा स्त इति व्याख्यानादित्यपि बोध्यम् । तथा च बुवते कतमेऽपि नपुसकमाप.’ इति कोशमुदाहृत्य “सर्वमापोमयञ्जगत्’ इति प्रयोगो दुर्घटवृत्तौ समर्थितः । रूपे ॥ आप्नोतेरसुन् हस्वत्वञ्च धातोः प्रत्ययस्य जुट् चेत्यर्थः । अब्ज इति ॥ झलाञ्जशू झशि ' इति पकारस्य बकार . । नहेः ॥ “नभो व्येन्नि नभो मेघे श्रावणे च पतद्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्व । ‘नभः कृीबं व्योन्नि पुमान् । घने श्रावणवर्षासु बिसतन्तौ पतद्भहे' इति मेदिनी । “नभन्तु नभसा सार्द्धम्' इति द्विरूपकोशादकारान्तोऽपि । विश्वोक्तिमाह । आाग इति ॥ अमेः ॥ अमन्ति गच्छन्त्यधो ऽनेनेत्यहो दुरितम् । रमेश्व ॥ रहो वेग. । अहिरहिभ्यामसुना सिद्धेऽघिरघिभ्यामसनि अङ्को रङ्कः इति माभूदिति सूत्रद्वयमिति गोवर्द्धनः । तथा च * स्यान्मछद्योष्मचतुर्थत्वमहसो रहसस्तथा इति द्विरूपकोशः । एवञ्च “दत्तार्घः सिद्धसडैर्विदधतु घृणयः शीघ्रमङ्कोविघातम्' इति । 'रङ्कः सङ्कः सुराणाञ्जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः’ इति घकारपाठोऽनुप्रासरसिकाना प्रामादिक इति वदन्ति । देशे ह च ॥