पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५४
सिद्धान्तकौमुद्याम्

अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं स्यात् । दन्तलेखकः । यस्य दन्तलेखनेन जीविका । “नित्यं क्रीड-' (सू ७११) इति समासः । अके' किम् । रमणी यकर्ता । जीविकार्थे' किम् । इक्षुभक्षिका मे धारयसि ॥ ३८०८ । प्राचां क्रीडायाम् (६-२-७४) । प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्तपरे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । “सज्ञायाम्' (सू ३२८६) इति ण्वुल् । “प्राचाम्' किम् । जीवपुत्रप्रचायिका । इयमुदीचां कीडा । क्रीडायाम्' किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥ ३८०९ अणि नियुक्त (६-२-७५) । अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्तूधार. । 'नियुक्त' किम् । काण्डलावः ।३८१० । शिल्पिनि चाकृञ्जः (६-२-७६) । शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमाद्युदात्त स चेदण्कृङः परो न भवति । तन्तुवायः । शिल्पिनि' किम् । काण्डलावः । “ अकृञ्ज' किम् । कुम्भकारः ॥ ३८११ । सज्ञायां च (६-२ - ७७) । अण्णन्ते परे । तन्तुवायो नाम कृमि. । ‘अकृञ् " इत्यव । रथकारा नाम ब्राह्मण । ३८१२ । गोतन्तियव पाले (६-२-७८) । गोपालः । तन्तिपाल यवपाल• । अनियुक्तार्थो योगः । “गो' इति किम् । वत्सपाल । “पाले' इति किम् । गोरक्ष ॥ ३८१३ । णिनि (६-२-७९) । पुष्पहारी ॥ ३८१४ । उपमानं शब्दार्थप्रकृतावेव (६-२-८०) । उपमानवाचि पूवेपद णिन्यन्त पर आद्युदात्तम् उष्टक्रोशी ध्वाङ्करावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । 'शब्दार्थप्रकृतौ' किम् । वृकवञ्ची । “प्रकृतिग्रहणम्’ किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोञ्चारी ॥ ३८१५ । युक्तारोह्यादयश्च (६-२-८१) । आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता । अत्र णिन्यन्ताना केषाञ्चित्पाठः पूर्वोत्तरपदनियमार्थः । तेनेह न । वृक्षारोही । युक्ताध्यायी । ३८१६ । दीर्घकाशतुषभ्राष्ट्रवट जे (६-२-८२) । कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥ ३८१७ । अन्यात्पूर्व बह्वचः (६-२-८३) । बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्त ज उत्तरपदे । उपसरजः । आमलकीज: । “वह्वचः’ किम् । दग्धजानि तृणानि ॥ ३८१८ । ग्रामेऽनिवसन्तः (६-२-८४) । ग्रामे परे पूर्वपदमुदात्तम् । तचेन्निवसद्वाचि न । मलग्राम प्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । “ अनिवसन्त’ किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥ ३८१९ । घोषादिषु च (६-२-८५) । दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः । ३८२० । छात्तूयादयः शालायाम् (६-२-८६) । छातूिशाला । व्याडिशाला । यदापि समासो नपुंसकलिङ्गो भवति तदापि “तत्पुरुषे शालायां नपुसके' (सू ३८५७) इत्येतस्मात्पूर्व विप्रतिषेधेनायमेव स्वरः । छातूिशालम् ॥ ३८२१ । प्रस्थेऽवृद्धमकक्र्यादीनाम् (६-२-८७) । प्रस्थशब्द उत्तरपदे कक्र्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्त ख्यात् । इन्द्रप्रस्थः । “ अवृद्धम्' इति किम् । दाक्षिप्रस्थः । 'अकक्र्यादीनाम्' इति किम् । ककप्रस्थः । मकरीप्रस्थः ॥ ३८२२ । मालादीनां च (६-२-८८) । वृद्धार्थमिदम् । मालाप्रस्थः । शोणाप्रस्थः ॥ ३८२३ । अमह न्नवन्नगरेऽनुदीचाम् (६-२-८९) । नगरे परे महन्नवन्वार्जत पूर्वमाद्युदात्तं स्यात् तचेदुदीचां न । ब्रह्मनगरम् । “ अम-' इति किम् । महानगरम् । नवनगरम् । “ अनुदीचाम्' किम् । कार्ति नगरम् ॥ ३८२४ । अर्मे वावर्ण द्यच्त्र्यच् (६-२-९०)। अर्मे परे द्यच्व्यच्पूर्वमवर्णान्तमाद्युदात्तम् । ।