पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६१
स्वरप्रकरणम् ।

उपमानम् । सिहमुख ॥ ३९०४ । जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्ना । (६-२-१७०) । सारङ्गजग्धः । मासजातः । सुखजातः । दु खजातः । 'जातिकाल-' इति किम् । पुत्रजात । “ अनाच्छादनात्' किम् । वस्रच्छन्न ’ । “ अकृत-' इति किम् । कुण्डकृत । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥ ३९०५ । वा जाते (६-२-१७१) । जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्त. । दन्तजातः । मासजात ॥ ३९०६ । नञ्सुभ्याम् (६-२-१७२) । बहुव्रीहावुत्तरपदमन्तोदात्तम् । अत्रीहि । सुमाष ॥ ३९०७ । कपि पूर्वम् (६-२-१७३) । नञ्सुभ्या पर यदुत्तरपदं तदन्तस्य समासस्य पूर्व मुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥ ३९०८ । हस्वान्तेऽन्यात्पूर्वम् (६-२-१७४) हस्वान्त उत्तरपदे समासे चान्यात्पूर्वमुदात्त कपि नञ्सुभ्यां पर बहुव्रीहौ । अत्रीहिकः । सुमाषकः । पूवामलयनुवतमान पुनः पूवप्रहण प्रवृत्तभदन नियमाथम् । हस्खान्तऽन्त्यादव पूवपदमुदात्त न काप पूवामात । अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥ ३९०९ । बहानञ्व दुत्तरपदभून्नि (६२-१७५) । उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नज परस्येव स्वर स्यात् । बहुव्रीहिकः । बहुमितूकः । 'उत्तरपद- ' इति किम् । बहुषु मानाऽस्य स बहुमान ॥ ३९१० । न गुणादयोऽवयवाः (६-२-१७६) । अवयववाचिनो बहोः परे गुणादया नान्तोदात्ता बहुव्रीहौ । बहुगुणा रज्जुः । बह्वक्षर पदम् । बह्वध्यायः ग्रन्थः । गुणादिराकृतिगणः । ‘अवयवा किम् । बहुगुणो द्विजः । अध्ययनश्रतसदाचारादयो गुणाः ॥ ३९११ । उपसर्गात्स्वाङ्ग धुव मपर्श (६-२-१७७) । प्रपृष्ठः । प्रललाटः । ध्रुवमेकरूपम् । ‘उपसर्गात्' किम् । दर्शनीयपृष्ठः । स्वाङ्गम् ’ किम् । प्रशाखा वृक्ष । ‘ध्रुवम्’ किम् । उद्वाहुः । “अपर्श' किम् । विपर्शः । ३९१२ । वन समासे (६-२-१७८) । समासमात्र उपसर्गदुत्तरपद वनमन्तोदात्तम् । तस्यादमे प्रवणे ॥ ३९१३ । अन्तः (६-२-१७९) । अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देश . । अनुपसर्गार्थमिदम् ॥ ३९१४ । अन्तश्च (६-२-१८०) । उपसर्गादन्तःशब्दोऽन्तोदात्त । पर्यन्तः । समन्तः ॥ ३९१५ । न निविभ्याम् (६-२-१८१) । न्यन्तः । व्यन्तः । पूर्वपदप्रकृति खरे यणि च कृते 'उदात्तस्वरितयोर्यणः-' (सू ३६५७) इति स्वरित ॥ ३९१६ । परराभता भावि मण्डलम् (६-२-१८२) । परेः परमभित उभयतो भावो यस्यास्ति तत्कूलाद मण्डल चान्तोदात्तम् । पारकूलम् । पारमण्डलम् ॥ ३९१७ । प्रादस्वाङ्गं सज्ञायाम् (६२-१८३) । प्रगृहम् । 'अस्वाङ्गम् ’ किम् । प्रपदम् ॥ ३९१८ । निरुदकादीनि च (६-२-१८४) । अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥ ३९१९ । अभेर्मुखम् (६-२-१८५) । अभिमुखम् । उपसर्गात्स्वाङ्गम्-' (सू ३९११) इति सिद्धे अबहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थे च । अभिमुखा शाला ॥ ३९२० । अपाच (६-२-१८६) । अपमुखम् । योगविभाग उत्तरार्थ ॥ ३९२१ । स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम चव (६-२-१८७) । अपादिमान्यन्तोदात्तानि । अप स्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । “उपसर्गादध्वन ' (सू९५३) इत्यस्याभाव इदम् । एतदेव च ज्ञापकं समासान्तानिल्यत्वे । अपकुक्षि । सीरनाम । अपसीरम् । अपहलम्। नाम । अपनाम । स्फिगपूतवीणाकुक्षिग्रहणमबहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थ दन्तस्यापारजाती च ॥ ३९२२ । अधेरुपरिस्थम् (६२-१८८) । अध्यारूढोदन्तोऽधिदन्तः।

96