पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४४
[उणादिषु
सिद्धान्तकौमुदीसहिता

५६३ । वर्णेलिश्चाहिरण्ये । वर्णि: सौत्रः । अस्य बलिरादेशः । करो पहारयोः पुंसि बलिः प्राण्यङ्गके स्त्रियाम् । वबयोरैक्यात् वलिः । हिरण्ये तु वर्णिः सुवर्णम् ।

५६४ । वसिवीपयजिराजित्रजिसदिहनिवाशिवादिवारिभ्य इञ् । वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजि: । राजी । ब्राजिव तालिः । सादिः सारथिः । निघातिलहघातिनी । वाशिरग्निः । वादिविद्वान् । वारिर्गजबन्धनी । जले तु कृीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।

५६५ । नहो भश्च । नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्य पीति केचित् ।

५६६ । कृषेद्धिश्छन्दसि । कार्षिः ।

५६७ । श्रः शकुनी । शारिः शारिका ।

५६८ । कृञ् उदीचां कारुषु । कारिः शिल्पी ।

५६९ । जनिघसिभ्यामिण । जनिर्जननम् । घासिर्भक्ष्यमन्निश्च ।


वर्णेः ॥ वलिदैत्यप्रभेदे च करचामरदण्डयोः । उपदायां पुमान्स्त्री तुजरया श्लथचर्मणि। गृहदाह प्रभेदे व जठरावयवेऽपि च' इति मेदिनी । वसि ॥ एभ्यो दशभ्य इव्स्यात् । वाशिरिति ॥ दन्यसः । सूत्र अष्टमसुतु तालव्यश । द्वयमपि च्छेदनसाधने प्रयुज्यते । वास्यादीनामिव करणानाङ्कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः । वास्यर्थमित्यत्र 'स्कोः' इति सलोपः प्राप्तोतीति भाष्यम् । “वाशीमन्य अष्टिमन्तो मनीषिणः’ इति मन्त्र । “राजः स्त्री पङ्गिरेखयोः' इति मेदिनी । इह वादीति ण्यन्तो निर्दिष्टः । बाहुलकादण्यन्तादपि । तथा च भूवादिसूत्रे वदन्तीति वादयो वाचकाः' इति न्यासकारादय । “वारिर्वार्गजबन्धयोः स्त्री कृीबेऽम्बुनि वालके । वारी स्याद्भजबन्धन्याङ्कलश्यामपि योषिति ? इति चव । “वारिः स्मृता सरखत्यां वारिहीभेदनीरयोः । वारी घटीभबन्धन्योः' इति विश्वः । 'हारिः पथिकसन्तानबूतादिभङ्गयोः त्रियाम्' इति मेदिनी । खटतेः खाटि : । *खाटिस्त्वसद्रहेऽपि स्यात् किणे शवरथे स्त्रियाम् ' इति मेदिनी । नहो भश्च ॥ स्त्रियामिति ॥ लिङ्गानुशासने त्रियामित्यधिकारे नाभिरक्षत्रिय इति सूत्रितत्वादिति भाव . । केचिदिति ॥ तथा च मेदिनी । “नाभिर्मुख्यनृपे चक्रमछद्य क्षत्रियोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियाङ्कस्तूरिकामदे' इति । भारविश्व प्रायुङ्ग । समुछसत्पङ्कजकोशकोमलैरुपाकृतश्रीण्युपनीवि नाभिभिः’ इति । श्र ॥ “शारिर्नाक्षोपकरणे त्रिया शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च' इति मेदिनी । कपिलकादि त्वाछत्वम् । शालितु कलमादौ व गन्धमार्जारके पुमान्' इति मेदिनी । कृञ्जः ॥ 'कारि त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि' इति मेदिनी । जनिधसिभ्यामिण् ॥ प्रत्यया न्तरकरण स्वरार्थम् । यञ्च घासिञ्जघास । आजिन्न जग्मुः सुकृतातमर्णः’ इत्यादौ घास्याजि पाणिप्रभृतीनामन्तोदात्तत्वात् । जनिरिति त्रीलिङ्गम् । ‘कृदिकारात्' इति पक्षे डीष् । 'जनी