पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६६९
बालमनोरमा
  अवोदः अवछेदनम् । एध इन्धनम् । ओदा उन्दनम् । श्रन्थेर्नलोपो

वृद्ध-यभावश्च । प्रश्रथः । हिमश्रथः ।

      ३१९० । परिमाणाख्यायां सर्वेभ्य’ । (३-३-२०)

अजपोर्वाधनार्थमिदम् । एकस्तण्डुलनिचाय तण्डुलाना निचायः राशिं परिच्छिद्यते । द्वौ शूर्पनिष्पावौ । शूर्पण निष्पावौ । द्वैौ कारौ । अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते । ‘दारजारौ कर्तरि णिलुक्च' (वा २१८२) । दारयन्तीति दाराः । जरयतीति जारः उपपति


आदुण । लघूपधगुणस्तु न भवति । “न धातुलोपे' इति निषेधात् । एध इति ॥ “ि इन्धी दीप्तो ' इत्यस्मात् घञ्जि नलेष । 'न धातुलोप' इति निषेध बाधित्वा गुणश्च निपात्यते । ओोइ इति ॥ उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते । श्रन्थेरिति ॥ प्रपूर्वस्य हिमपूर्वस्य च घञ्जीति शेषः । परिमाणाख्यायां ॥ घञ्जिति ॥ शेषपूरणम् । सर्वेभ्य धातुभ्य अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्ये इत्यर्थः । ननु 'अकर्तरि कारके इलेयव सिद्धे किमर्थमिदमित्यत आह । अजपोरिति ॥ “एरच् ' 'ऋदोरप्' इति वक्ष्यमाणयो बाधनाथामल्यथ । ' अकतेरि च' इति घञ् तु ताभ्या विशेषविहिताभ्या वाच्यवत, सरूपत्वन वाऽसरूपविधेरप्रवृत्तेरिति भावः । एकस्तण्डुलनिचाय इति । निष्कृष्य चीयते सद्दीक्रियते इति निचायः । कर्मकारके वाच्ये ‘एरच्' इत्यस्यापवादो घञ् । तण्डुलनिचायशब्दे विग्रह दर्शयति तण्डुलानामिति ॥ निचायशब्दस्य विवरणम् । राशिरिति ॥ परिच्छिद्यते इति ॥ तण्डुलावयवकसङ्घातात्मक राशिरेकत्वेन परिच्छिद्यते इत्यर्थ. । द्वौ शूर्पनिष्पावाविति ॥ निष्पूयते तुषापनयनेन शोछद्यते इति निष्पाव. तण्डुलादिराशि शूर्पण निष्पाव शूर्पनिष्पाव । “कर्तृकरणे कृता बहुलम्' इति समासः । द्वित्वन्तु शूर्पद्वारा निष्पावेऽन्वति । अतश्शूर्पद्वित्वमार्थिकम् । न तु शाब्दमिलेकवचन निबधम् । तदाह । शूर्पणेत्यादि । द्वौ काराविति ॥ कीर्यते विक्षिप्यते इति कार । धान्यादिराशिः कर्मणि घञ् अवपवाद । तदाह । अत्र विक्षिप्यमाण इति ॥ न च धातोरित्यधिकारादेव धातु मात्रात्सिद्धे सर्वग्रहण व्यर्थमिति शङ्कयम् । प्रकृत्याश्रय एवापवादा बाछद्यते । नत्वर्थाश्रय इत्येतदर्थत्वात् । तेनेह न । एका तिलोच्छूितिः । उच्छूीयते ऊध्वीक्रियते इत्युच्छितिः । ऊध्र्व कृतो राशि. कर्मणि त्रिया क्तिन् । स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावात् नानेन घञ्जा बाछद्यते । किन्तु एरच् ‘ऋदोरप्' इति प्रकृत्याश्रयावेव अजपौ बाछेते इति भाष्ये स्पष्टम् । दारजाराविति ॥ वार्तिकम् । “दृ विदारणे', 'जू वयेोहानौ' आभ्या ण्यन्ताभ्याङ्कर्तरि घञ् । णिलोप बाधित्वा णिलुक् चत्यर्थः । दारयन्ति चित्त विद्रावयन्तीति दारा भार्या । “दारा पुसि च भूम्न्येव' इत्यमर । घजि णिलुक् । ण्याश्रयवृद्धौ निवृत्तायां घञ्जाश्रया वृद्धि । तदाह । दारयन्तीति दारा इति ॥ जरयति नाशयति कुल मिति जार जूधातोण्यन्तात् घञ् णिलुक् । णिलोपे सति तु तस्य परनिमित्तकत्वेन अचः परस्मिन्’ इति स्थानिवत्वात् घञ्जाश्रया वृद्धिः न स्यात् । न च णिनिमित्तैव