पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६७१
बालमनोरमा
             ३१९४ । समि युदु वः । ३-३-२३)

संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः ।

              ३१९५ । श्रिणीभुवोऽनुपसर्गे । (३-३-२४)

श्रायः । नाय: । भावः । * अनुपसर्गे' किम् । प्रश्रयः । प्रणयः । प्रभव । कथम् *प्रभावो राज्ञः’ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथम् । राज्ञो नय:’ इति । वाडुलकान्

               ३१९६ । वो क्षुश्रुवः । (३-३-२५)

विक्षावः । विश्रावः । * वौ' किम् । क्षवः । श्रवः ।

              ३१९७ । अवोदोर्नियः । (३-३-२६)

अवायोऽधोनयनम् । उन्नाय: ऊध्र्वनयनम् । कथम् “उन्नयः उत्प्रेक्षा इति । बाहुलकान् ।

              ३१९८ । प्रे दुख्तुलुवः । (३-३-२७)

प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे' इति किम् । द्रवः । स्तवः । स्रव ।

              ३१९९ । निरभ्योः पूल्वोः (३-३-२८)

निष्पूयते शूर्पदिभिरिति निष्पावो धान्यविशेषः । अभिलावः । “निर भ्योः ' किम् । पव. । लवः ।

               ३२० । उन्न्योः । (३-३-२९)

उद्वारः । निगारः । * उन्न्याः किम् । गर ।

           ३२०१ । कृ धान्ये । (३-३-३०)

रुवः ॥ घअिति शेषः । उपसर्गे उपपदे रुधातोर्घलित्यर्थः । अवपवादः । समि युदुदुवः ॥ समित्युपसर्गे उपपदे यु द्रु दु एभ्यः घनित्यर्थः, अबपवाद । श्रिणी ॥ उपसर्गे असति श्रि, नी, भू, एभ्यो घजिल्यर्थः, अजपेरपवाद । बाहुलकादिति ॥ 'कृल्यल्युटा बहुलम् इति बहुलग्रहणादियर्थः । वौ क्षुश्रुवः ॥ वि इत्युपसर्गे उपपदे क्षु, श्रु, धातोर्घवित्यर्थः । अबपवादः । अवोदोर्नियः ॥ अव, उत्, अनयोरुपपदयोः नाधाताधाअत्यथः । अजपवादः । उन्नय इत्यस्य विवरणम् । उत्प्रेक्षेति । प्रे दुस्तुखुवः ॥ प्र इत्युपपदे दु, सुतु, सुषु, एभ्यः घञ्जित्यर्थ. । अबपवाद । निरभ्योः ॥ निर्, अभि, अनयोरुपपदयोर्घजित्यर्थः । अबपवादः । उन्न्योझैः ॥ उत्, नि, इत्युपपदयोर्घनित्यर्थः, अबपवादः । कृ धान्ये ॥ कृ इति